अश्वेन वै देवा अग्रे विजितिम्ं व्यजयन्त यद् अश्वेन यन्ति विजित्यय् अग्निर् वै यत्रयत्रागछत् तं प्रजापतिर् अन्वपश्यत् प्राजापत्यो ऽश्वो यद् अश्वेन यन्त्य् अग्नेर् एवानुक्शात्यै प्रजाप्तिर् वा अग्निं सम्भरिष्यन्त् स एभ्यो लोकेभ्यो ऽश्वं निर्माय दिग्भ्यश् चाग्निं समभरद् यद् आह दिवि ते जन्म परमम् अन्तरिक्षे तव नाभिः पृथिव्याम् अधि योनिर् इद् इति यथादेवतं वा एतद् एभ्यो लोकेभ्यो ऽश्वं निर्माय दिग्भ्यश् चाग्निं सम्भरति युञ्जाथां रासभं युवम् इत्य् आह युक्त्या एव गर्दभेन सम्भरत्य् एष हि पशूनाम् अनुपजीवनीततमो ऽग्निर् वा एतस्याग्रे सृष्टस्य योने रेतो निरदहत् तस्माद् एष समावद् अन्यैः पशुभी रेतो धत्ते ऽथ कनिष्ठो ऽश्वं पूर्वं नयन्ति गर्दभम् अपरं पापवसीयसस्य व्यावृत्त्यै तस्माञ् श्रेयांसं पूर्वं यन्तं पापीयान् पश्चाद् अन्वेति यदि कामयेत पापवसीयसं स्याद् इति गर्दभं पूर्वं नयेयुर् अपरम् अश्वम् एतेन वै विपूजनः सौराकिः पापवसीयसं चकार तत् पापवसीयसम् एवैतेन करोति योगेयोगे तवस्तरम् इत्य् ऊतिमत्या वाजवत्या यन्त्य् अन्नं वै वाजो गातुर् ऊतिर् अन्नाय च खलु वै गातवे चाग्निश् चीयते यद् ऊतिमत्या वाजवत्या यन्ति अन्नस्य च गातोश् चावरुद्ध्यै भवति वा एष यो ऽग्निं चिनुते सर्वो वै भवत इरस्यति वज्री वा एष प्राजापत्यो यद् अश्वो यद् आह प्रतूर्वन्न् एह्य् अवक्रामन्न् अशस्तीर् इति वज्रेण वा एतद् अशस्तीर् अरातीयन्तम् अवक्रामति रौद्रा वै पशवो ऽग्नी रुद्रो यद् रुद्रात् पशून् अनिर्याच्याग्निं चिन्वीत रुद्रो ऽस्य पशून् अभिमानुकः स्याद् यद् आह रुद्रस्य गाणपत्यान् मयोभूर् एहीति रुद्राद् वा एतत् पशून् निर्याच्याग्निं चिनुते ऽघातुको ऽस्य पशुपतिः पशून् भवत्य् उर्व् अन्तरिक्षं वीहीत्य् आहैषां लोकानां विधृत्यै रक्षांसि वा एतौ जिघांसन्त्य् अग्निं सम्भरिष्यन्तौ यद् आह स्वस्तिगव्यूतिर् अभयानि कृण्वन्न् इति स्वस्तिम् एवाभ्यामकः पुरीषं वा अग्नेर् आयतनम् अङ्गिरस एतम् अग्रे समभरद् यद् आहाग्निं पुरीष्यम् अङ्गिरस्वद् आभरेति सायतनम् एवैनं देवताभिः सम्भरति येन पुरुषेण सङ्गछेत तम् अभिमन्त्रयेताग्निं पुरीष्यम् अङ्गिरस्वद् अछेमा इति वाजम् एव तेन तस्माद् वृङ्क्ते प्रजापतये प्रोच्याग्निश् चेतव्या इत्य् आहुर् यतः सूर्यस्योदयनं ततो वल्मीकवपाम् अपघ्नन् ब्रूयाद् अग्निं पुरीष्यम् अङ्गिरस्वद् भरिष्यामा इतीयं वै प्रजापतिस् तस्या एष कर्णो यद् वल्मीकस् तस्मा एव प्रोच्याग्निं चिनुते शृण्वन्ति हैनम् अग्निं चिक्यानम् असा अग्निम् अचेष्टेति तस्मात् पापीयाञ् श्रेयसः कर्ण आह कर्णः कर्णायाह ॥म्स्_३,१।३॥
वीहीत्य् : फ़्न् एमेन्देद्। एद्।: वीहीत्य्। च्फ़्। २।७।२:७५।८