०२

सावित्रैर् अभ्रिम् आदत्ते प्रसूत्यै चतुर्भिर् आदत्ते चत्वारि वै छन्दांसि छन्दोभिर् एवादत्ते ऽथो ब्रह्म वै छन्दांसि ब्रह्मणैवादत्त इयं वै गायत्र्य् अन्तरिक्षं त्रिष्टुब् द्यौर् जगती दिशो ऽनुष्टुप् सवितृप्रसूतो वा एतद् एभ्यो लोकेभ्यश् छन्दोभिर् दिग्भ्यश् चाग्निं सम्भरति यत्र वा अदो ऽग्निर् होत्राद् भीषापाक्रामत् स सर्वेषु भुतेष्व् अवसद् यां वनस्पतिष्व् अवसत् तां वेणा अवसत् स यत्र निरदहत् तानि कल्माषाण्य् अभवन् येन समचरत् तत् सुषिरं यत्रावसत् तत् पर्व यद् वैणव्य् अभ्रिर् भवति स्वेनैवैनं योनिना सम्भरति यो वै वनस्पतीनां फलग्रहितमः स एषां वीर्यवत्तमो वेणुर् वै वनस्पतीनां फलग्रहितमः स एषां वीर्यवत्तमो ऽन्नं वै फलम् अन्नम् अर्को ऽर्को ऽग्निर् अर्केण वा एतद् अन्नम् अर्कम् अग्निं सम्भरति व्याममात्री कार्यैतावद् वै पुरुषे वीर्यं वीर्यसम्मिता क्रियते ऽथो एतावान् वै पुरुषे महिमा महिम्नो ऽवरुद्ध्यय् अरत्निमात्री कार्या यज्ञपुरुषासम्मिता प्रादेशमात्री कार्या विष्णुना यज्ञेन सम्मितोभ्यतःक्ष्णुत् कार्योभयस्यान्नाद्यस्यावरुद्ध्यय् अन्यतःक्ष्णुत् कार्या अन्यतःक्ष्णुद् धि फालस् तावन्तम् अर्कं करोत्य् अन्नं वा अर्को ऽन्नाद्यस्यावरुद्ध्यय् औदुम्बरी कार्योर्ग् वा उदुम्बर ऊर्जो ऽवरुद्ध्यय् अपरिमिता कार्यापरिमितस्यावरुद्ध्यै य एव कश्च वृक्षः फलग्रहिस् तस्य कार्यान्नाद्यस्यावरुद्ध्यै ॥म्स्_३,१।२॥