बह्वीः साकं बहुधा विश्वरूपा एकव्रता माम् अभिसंविशन्तु ॥म्स्_२,१३।२२॥
हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिर् एक आसीत् ।
स दाधार पृथिवीं द्याम् उतेमां कस्मै देवाय हविषा विधेम ॥
यः प्राणतो निमिषतश् च राजा पतिर् विश्वस्य जगतो बभूव ।
ईशे यो अस्य द्विपदश् चतुष्पदः कस्मै देवाय हविषा विधेम ॥
य ओजोदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः ।
यस्य छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम ॥
यस्येमे विश्वे गिरयो महित्वा समुद्रं यस्य रसया सहाहुः ।
दिशो यस्य प्रदिशः पञ्च देवीः कस्मै देवाय हविषा विधेम ॥
येन द्यौर् उग्रा पृथिवी च दृढा येन स्वः स्तभितं येन नाकः ।
यो अन्तरिक्षं विममे वरीयः कस्मै देवाय हविषा विधेम ॥
य इमे द्यावापृथिवी तस्तभाने अधारयद् रोदसी रेजमाने ।
यस्मिन्न् अधि विततः सूरा एति कस्मै देवाय हविषा विधेम ।
आपो ह यन् महतीर् विश्वम् आयन् गर्भं दधाना जनयन्तीर् अग्निम् ।
ततो देवानां निरवर्ततासुः कस्मै देवाय हविषा विधेम ॥
आ नः प्रजां जनयतु प्रजापतिर् धाता दधातु सुमनस्यमानः ।