२१

समीची नामासि प्राची दिक् तस्यास् ते ऽग्निर् अधिपतिर् असितो रक्षिता यश् च ते ऽधिपतिर् यश् च रक्षिता ताभ्यां नमो अस्तु तौ नो मृडतां ते यं द्विष्मो यश् च नो द्वेष्टि तम् एनयोर् जम्भे दध्म ओजस्या नामासि दक्षिणा दिक् तस्यास् ता इन्द्रो ऽधिपतिस् तिरश्चीनराजी रक्षिता यश् च ते ऽधिपतिर् यश् च रक्षिता ताभ्यां नमो अस्तु तौ नो मृडतां ते यं द्विष्मो यश् च नो द्वेष्टि तम् एनयोर् जम्भे दध्मः प्राची नामासि प्रतीची दिक् तस्यास् ते सोमो ऽधिपतिः स्वजो रक्षिता यश् च ते ऽधिपतिर् यश् च रक्षिता ताभ्यां नमो अस्तु तौ नो मृडतां ते यं द्विष्मो यश् च नो द्वेष्टि तम् एनयोर् जम्भे दध्मः सुषदा नामास्य् उदीची दिक् तस्यास् ते वरुणो ऽधिपतिः सृदागू रक्षिता यश् च ते ऽधिपतिर् यश् च रक्षिता ताभ्यां नमो अस्तु तौ नो मृडतां ते यं द्विष्मो यश् च नो द्वेष्टि तम् एनयोर् जम्भे दध्मो ऽवस्था नामास्य् अवाची दिक् तस्यास् ते विष्णुर् अधिपतिः कल्माषग्रीवो रक्षिता यश् च ते ऽधिपतिर् यश् च रक्षिता ताभ्यां नमो अस्तु तौ नो मृडतां ते यं द्विष्मो यश् च नो द्वेष्टि तम् एनयोर् जम्भे दध्मो ऽधिपत्नी नामास्य् ऊर्ध्वा दिक् तस्यास्ते बृहस्पतिर् अधिपतिश् चित्रो रक्षिता यश् च ते ऽधिपतिर् यश् च रक्षिता ताभ्यां नमो अस्तु तौ नो मृडतां ते यं द्विष्मो यश् च नो द्वेष्टि तम् एनयोर् जम्भे दध्मः ॥म्स्_२,१३।२१॥

स्वयं कृण्वानः सुगम् अप्रयावं तिग्मशृङ्गो वृषभः शोशुचानः ।
प्रत्नं सधस्थम् अनुपश्यमाना आ तन्तुम् अग्निर् दिव्यं ततान ॥

त्वं तन्तुर् उत सेतुर् अग्ने त्वं पन्था भवसि देवयानः ।
त्वयाग्ने पृष्ठं वयम् आरुहेम यत्र देवैः सधमादं मदेम ॥

अतिसर्गं ददतो मानवायोर्ध्वं पन्थाम् अनुपश्यमानाः ।
अजुषन्त मरुतो यज्ञम् एतं वृष्टिद्यावानम् अमृतं स्वर्विदम् ॥

आवर्तमानो भुवनस्य मध्ये प्रजाः कृण्वन् जनयन् विरूपाः ।
संवत्सरः परमेष्ठी धृतव्रतो यज्ञं नः पातु रजसः परस्मात् ॥

प्रजां ददातु परिवत्सरो नो धाता दधातु सुमनस्यमानः ।