२०

कृत्तिका नक्षत्रम् अग्निर् देवताग्ने रुचः स्थ प्रजापतेः सोमस्य धातुर् ऋचे त्वा रुचे त्वा भासे त्वा ज्योतिषे त्वा तेन छन्दसा तेन ब्रह्मणा तया देवतयाङ्गिरस्वद् ध्रुवा सीद रोहिणी नक्षत्रं प्रजापतिर् देवतेन्वगा नक्षत्रं मरुतो देवता बाहुर् नक्षत्रं रुद्रो देवता पुनर्वसुर् नक्षत्रम् अदितिर् देवता तिष्यो नक्षत्रं बृहस्पतिर् देवताश्लेषा नक्षत्रं सर्पा देवता मघा नक्षत्रं पितरो देवता फल्गुनीर् नक्षत्रं भगो देवता फल्गुनीर् नक्षत्रम् अर्यमा देवता हस्तो नक्षत्रं सविता देवता चित्रा नक्षत्रं त्वष्टा देवता निष्ट्यं नक्षत्रं वायुर् देवता विशाखं नक्षत्रम् इन्द्राग्नी देवतानूराधा नक्षत्रं मित्रो देवता ज्येष्ठा नक्षत्रं वरुणो देवता मूलं नक्षत्रं निरृतिर् देवताषाढा नक्षत्रम् आपो देवताषाढा नक्षत्रं विश्वे देवा देवताभिजिन् नक्षत्रं ब्रह्मा देवता श्रोणा नक्षत्रं विष्णुर् देवता श्रविष्ठा नक्षत्रं वसवो देवता शतभिषं नक्षत्रम् इन्द्रो देवता प्रोष्ठपदा नक्षत्रम् अहिर् बुध्न्यो देवता प्रोष्ठपदा नक्षत्रम् अज एकपाद् देवता रेवती नक्षत्रं पूषा देवताश्वयुजौ नक्षत्रम् अश्विनौ देवता भरणीर् नक्षत्रं यमो देवता ब्राह्मणो नक्षत्रं सोमो देवताग्ने रुचः स्थ प्रजापतेः सोमस्य धातुर् ऋचे त्वा रुचे त्वा भासे त्वा ज्योतिषे त्वा तेन छन्दसा तेन ब्रह्मणा तया देवतयाङ्गिरस्वद् ध्रुवा सीद ॥म्स्_२,१३।२०॥
शतभिषं : ⟨ शतभिषज्