ज्योतिष्मतीं त्वा सादयामि ज्योतिष्कृतं त्वा सादयामि ज्योतिर्विदं त्वा सादयाम्य् ऊर्ध्वज्योतिषं त्वा सादयामि बृहज्ज्योतिषं त्वा सादयामि विश्वज्योतिषं त्वा सादयाम्य् अजस्रां त्वा सादयामि भास्वतीं त्वा सादयामि दीप्यमानां त्वा सादयामि रोचमानां त्वा सादयामि ज्वलन्तीं त्वा सादयामि मल्मलाभवन्तीं त्वा सादयामि जाग्रतीं त्वा सादयामि बोधयन्तीं त्वा सादयामि ॥म्स्_२,१३।१९॥