भूयस्कृद् असि वरिवस्कृद् असि प्राच्य् अस्य् ऊर्ध्वास्य् अन्तरिक्षम् अस्य् ओजोदां त्वौजसि सादयामि पयोदां त्वा पयसि सादयामि तेजोदां त्वा तेजसि सादयामि यशोदां त्वा यशसि सादयामि वर्चोदां त्वा वर्चसि सादयामि पृथिव्यास् त्वा द्रविणे सादयाम्य् अन्तरिक्षस्य त्वा द्रविणे सादयामि दिवस् त्वा द्रविणे सादयामि दिशां त्वा द्रविणे सादयामि द्रविणोदां त्वा द्रविणे सादयाम्य् अप्सुषद् असि गृध्रसद् असि श्येनसद् असि सुपर्णसद् असि नाकसद् असि ॥म्स्_२,१३।१८॥