१६

या देव्य् असीष्टके कुमार्य् उपशीवरी सा मोपशेष्व जायेव सदम् इत् पतिं या देव्य् असीष्टके प्रफर्व्य् उपशीवरी सा मोपशेष्व जायेव सदम् इत् पतिं या देव्य् असीष्टके युवतिर् उपशीवरी सा मोपशेष्व जायेव सदम् इत् पतिं या देव्य् असीष्टक आयुर्दाः प्राणदा अपानदा व्यानदाश् चक्षुर्दाः श्रोत्रदाः पृथिव्याम् अन्तरिक्षे दिवः पृष्ठ उपशीवरी सा मोपशेष्व जायेव सदम् इत् पतिं या देवीः स्थेष्टकाः सुशेवा उपशीवरीस् ता मोपशेध्वं जाया इव सदम् इत् पतिम् ॥म्स्_२,१३।१६॥