पृथिव्य् असि जन्मना वशा साग्निं गर्भम् अधत्थाः सा मया सम्भवान्तरिक्षम् असि जन्मना वशा सा वायुं गर्भम् अधत्थाः सा मया सम्भव द्यौर् असि जन्मना वशा सादित्यं गर्भम् अधत्थाः सा मया सम्भव नक्षत्राण्य् असि जन्मना वशा सा चन्द्रमसं गर्भम् अधत्थाः सा मया सम्भव ऋग् असि जन्मना वशा सा साम गर्भम् अधत्थाः सा मया सम्भव विड् असि जन्मना वशा सा राजानं गर्भम् अधत्थाः सा मया सम्भव वाग् असि जन्मना वशा सा प्राणं गर्भम् अधत्थाः सा मया सम्भवापो ऽसि जन्मना वशा सा यज्ञं गर्भम् अधत्थाः सा मया सम्भव ॥म्स्_२,१३।१५॥