१४

प्रमा छन्दस् तद् अन्तरिक्षं वायुर् देवता प्रतिमा छन्दस् तद् द्यौः सूर्यो देवतास्रीवीश् छन्दस् तद् दिशः सोमो देवता गायत्री छन्दस् तद् अजा बृहस्पतिर् देवता त्रिष्टुप् छन्दस् तद् धिरण्यम् इन्द्रो देवता जगती छन्दस् तद् गौः प्रजापतिर् देवतानुष्टुप् छन्दस् तद् आयुर् मित्रो देवतोष्णिक् छन्दस् तच् चक्षुः पूषा देवता विराट् छन्दस् तद् अश्वो वरुणो देवता बृहती छन्दस् तत् कृषिः पर्जन्यो देवता पङ्क्तिश् छन्दस् तत् पुरुषः परमेष्ठी देवता तेन छन्दसा तेन ब्रह्मणा तया देवतयाङ्गिरस्वद् ध्रुवा सीद ॥म्स्_२,१३।१४॥