१२

यवा अयवा ऊमा एवा अब्दः सगरः सुमेको ऽग्ने कह्याग्ने किंशिलाग्ने दुध्राग्ने वन्याग्ने कक्ष्य या ता इषुर् युवा नाम तया विधेम तस्यै ते नमस् तस्यास् ता उप पत्सुतो जीवा भूयास्म ते यं द्विष्मो यश् च नो द्वेष्टि तम् अस्या जम्भे दध्मः ॥म्स्_२,१३।१२॥

यो अप्स्व् अन्तर् अग्निर् यो वृत्रे यः पुरुषे यो अश्मनि ।
य आविवेशौषधीर् यो वनस्पतींस् तेभ्यो अग्निभ्यो हुतम् अस्त्व् एतत् ॥

यः सोमे अन्तर् यो गोष्व् अन्तर् वयांसि य आविवेश यो मृगेषु ।
य आविवेश द्विपदो यश् चतुष्पदस् तेभ्यो अग्निभ्यो हुतम् अस्त्व् एतत् ॥

येनेन्द्रस्य रथं सम्बभूवुर् यो वैश्वानर उत विश्वदाव्यः ।
धीरो यः शक्रः परिभूर् अदाभ्यस् तेभ्यो अग्निभ्यो हुतम् अस्त्व् एतत् ॥

विश्वादम् अग्निं यम् उ कामम् आहुर् यं दातारं प्रतिग्रहीतारम् आहुः ।
यं जोहवीमि पृतनासु सासहिं तेभ्यो अग्निभ्यो हुतम् अस्त्व् एतत् ॥

उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे ।
स्तोमैर् विधेमाग्नये ॥