१०

सा नः पयस्वती दुहा उत्तरामुत्तरां समाम् ॥म्स्_२,१३।१०॥

पृष्टो दिवि पृष्टो अग्निः पृथिव्यां पृष्टो विश्वा ओषधीर् आविवेश ।
वैश्वानरः सहसा पृष्टो अग्निः स नो दिवा स रिषस् पातु नक्तम् ॥

त्वं यविष्ठ दाशुषो नॄंष् पाहि शृणुधी गिरः ।
रक्षा तोकम् उत त्मना ॥

अग्ने धामानि तव जातवेदो देव स्वधावो ऽमृतस्य नाम ।