भुवद् वाजेष्व् अविता भुवद् वृध उत त्राता तनूनाम् ॥म्स्_२,१३।९॥
ऋतूनां पत्नी प्रथमेयम् आगाद् अह्नां नेत्री जनित्र्य् उत प्रजानाम् ।
एका सती बहुधोषो व्युछाजीर्णा त्वं जरय सर्वम् अन्यत् ॥
को विराजो मिथुनत्वं प्रवेद ऋतून् को अस्याः क उ वेद रूपम् ।
दोहान् को वेद कतिधा विदुग्धाः कति धामानि कति ये विवासाः ॥
इयम् एव सा या प्रथमा व्यौछत् साप्स्व् अन्तश् चरति प्रविष्टा ।
वधूर् मिमाय नवगज् जनित्री त्रय एनां महिमानः सचन्ते ॥
छन्दस्वती उषसौ पेपिशाने समानं योनिम् अनुसञ्चरेते ।
सूर्यपत्नी विचरतः प्रजानती केतुमती अजरे भूरिरेतसौ ॥
ऋतस्य पन्थाम् अनु तिस्र आगुस् त्रयो घर्मासो अनु रेतसागुः ।
प्रजाम् एका जिन्वत्य् ऊर्जम् एका क्षत्रम् एका रक्षति देवयूनाम् ॥
चतुष्टोमम् अदधाद् या तुरीया यज्ञस्य पक्षा ऋषयो भवन्ती ।
गायत्रीं त्रिष्टुभं जगतीं विराजम् अर्कं युञ्जानाः स्वर् आभरन्न् इदम् ॥
पञ्चभिर् धाता विदधा इदं तासां स्वर् अजनन् पञ्चपञ्च ।
तासाम् उ यन्ति प्रयवेण पञ्च नाना रूपाणि क्रतवो वसानाः ॥
ऋतस्य धामन् प्रथमा व्यूषुष्य् अपाम् एका महिमानं बिभर्ति ।
सूर्यस्यैका चरति निष्कृतानि घर्मस्यैका सवितैकां नियछते ॥
इदं श्रेयो मन्यमानो वा आगाम् अहं वो अस्मि सख्याय शेवः ।
समानजन्मा क्रतुर् अस्त्य् एकः सर्वः सर्वा विचरतु प्रजानन् ॥
भूयास्म ते सुमतौ विश्ववेदा आष्ठाः प्रतिष्ठाम् अविदो हि गाधम् ।
सत्यं वदन्तीर् महिमानम् आपान्या वो अन्याम् अति मा प्रयुक्त ॥
रुशद्विधाना समना पुरस्तात् प्रजानती यामम् उषा अयासीत् ।
ब्रह्मद्विषस् तमसा देवशत्रून् अभिवहन्ती विश्ववारा व्यवाट् ॥
पञ्च व्युष्टीर् अनु पञ्च दोहा गां पञ्चनाम्नीम् ऋतवो ऽनु पञ्च ।
पञ्च दिशः पञ्चदशेन कॢप्ताः समानमूर्ध्नीर् अभि लोकम् एकम् ॥
त्रिंशत् स्वसारा उपयन्ति निष्कृतं समानं केतुं प्रतिमुञ्चमानाः ।
ऋतूंस् तन्वते कवयः प्रजानतीर् मध्ये छन्दसः परियन्ति भास्वतीः ॥
ज्योतिष्मतीः प्रतिमुञ्चते नभो देवी रात्री सूर्यस्य व्रतानि ।
विपश्यन्ति पशवो जायमाना नानारूपा मातुर् अस्या उपस्थे ॥
प्रथमा ह व्युवास सा धेनुर् अभवद् यमे ।