अधा ह्य् अग्न एवा ह्य् अग्ने ॥म्स्_२,१३।८॥
आयाहि सुषुमा हि ता इन्द्र सोमं पिबा इमम् ।
एदं बर्हिः सदो मम ॥
आ त्वा ब्रह्मयुजा हरी वहताम् इन्द्र केशिना ।
उप ब्रह्माणि नः शृणु ॥
ब्रह्माणस् त्वा वयं युजा सोमपाम् इन्द्र सोमिनः ।
सुतावन्तो हवामहे ॥
अभि त्वा शूर नोनुमो ऽदुग्धा इव धेनवः ।
ईशानम् अस्य जगतः स्वर्दृशम् ईशानम् इन्द्र तस्थुषः ।
न त्वावं अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते ।
अश्वायन्तो मघवन्न् इन्द्र वाजिनो गव्यन्तस् त्वा हवामहे ॥
त्वाम् इद् धि हवामहे साता वाजस्य कारवः ।
त्वां वृत्रेष्व् इन्द्र सत्पतिं नरस् त्वां काष्ठास्व् अर्वतः ॥
स त्वं नश् चित्र वज्रहस्त धृष्णुया महः स्तवानो अद्रिवः ।
गाम् अश्वं रथ्यम् इन्द्र सङ्किर सत्रा वाजं न जिग्युषे ॥
कया नश् चित्र आभुवद् ऊती सदावृधः सखा ।
कया शचिष्ठया वृता ॥
कस् त्वा सत्यो मदानां मंहिष्ठो मत्सद् अन्धसः ।
दृढा चिद् आरुजे वसु ॥
अभी षु णः सखीनाम् अविता जरित्πणाम् ।
शतं भवास्य् ऊतिभिः ॥
यज्ञायज्ञा वो अग्नये गिरागिरा च दक्षसे ।
प्रप्र वयम् अमृतं जातवेदसं प्रियं मित्रं न शंसिषम् ॥
ऊर्जो नपातं स हिनायम् अस्मयुर् दाशेम हव्यदातये ।