०७

सम् अर्वन्तो रघुद्रुवः सं सुजातासः सूरय इषं स्तोतृभ्या आभर ॥म्स्_२,१३।७॥

एना वो अग्निं नमसोर्जो नपातम् आहुवे ।
प्रियं चेतिष्ठम् अरतिं स्वध्वरं विश्वस्य दूतम् अमृतम् ॥

त्वम् अग्ने गृहपतिस् त्वं होता नो अध्वरे ।
त्वं पोता विश्ववार प्रचेता यक्षि वेषि च वार्यम् ॥

देवो वो द्रविणोदाः पूर्णां विवष्ट्य् आसिचम् ।
उद् वा सिञ्चध्वम् उप वा पृणध्वम् आद् इद् वो देव ओहते ।
अग्ने वाजस्य गोमता ईशानः सहसो यहो ।
अस्मे धेहि जातवेदो महि श्रवः ॥

स इधानो वसुः कविर् अग्निर् ईडेन्यो गिरा ।
रेवद् अस्मभ्यं पुर्वणीक दीदिहि ॥

क्षपो राजन्न् उत त्मनाग्ने वस्तोर् उतोषसः ।
स तिग्मजम्भ रक्षसो दह प्रति ॥

अग्ने तम् अद्याश्वं न स्तोमैः क्रतुं न भद्रं हृदिस्पृशम् ।
ऋध्यामा ता ओहैः ॥

अधा ह्य् अग्ने क्रतोर् भद्रस्य

दक्षस्य साधोः ।
रथीर् ऋतस्य बृहतो बभूथ ॥

आभिष् टे अद्य गीर्भिर् गृणन्तो ऽग्ने दाशेम । प्र ते दिवो न स्तनयन्त शुष्मैः ।
अग्निं होतारं मन्ये दास्वन्तं वसुं सूनुं सहसो जातवेदसं विप्रं न जातवेदसम् । य ऊर्ध्वया स्वध्वरो देवाच्या कृपा ।
घृतस्य विभ्राष्टिम् अनु शुक्रशोचिषः ॥

आजुह्वानस्य सर्पिषः ॥

हंसः शुचिषद् अभि त्यं देवं सवितारम् अग्ने त्वं नो अन्तमः ॥