ववक्ष उग्रो अस्तृतः ॥म्स्_२,१३।६॥
अयम् अग्निः सहस्रिणो ऽग्निर् मूर्धा त्वाम् अग्ने पुष्कराद् अधि ॥
अबोध्य् अग्निः समिधा जनानां प्रति धेनुम् इवायतीम् उषासम् ।
यह्वा इव प्र वयाम् उज्जिहानाः प्र भानवः सिस्रते नाकम् अछ ॥
अवोचाम कवये मेध्याय वचो वन्दारु वृषभाय वृष्णे ।
गविष्ठिरो नमसा स्तोमम् अग्नौ दिवीव रुक्मम् उरुव्यञ्चम् अश्रेत् ॥
अबोधि होता यजथाय देवान् ऊर्ध्वो अग्निः सुमनाः प्रातर् अस्थात् ।
समिद्धस्य रुशद् अदर्शि पाजो महान् देवस् तमसो निरमोचि ॥
जनस्य गोपा अजनिष्ट जागृविर् अग्निः सुदक्षः सुविताय नव्यसे ।
घृतप्रतीको बृहता दिविस्पृशा द्युमद् विभाति भरतेभ्यः शुचिः ॥
त्वाम् अग्ने अङ्गिरसो गुहा हितम् अन्वविन्दञ् शिश्रियाणं वनेवने ।
स जायसे मथ्यमानः सहो महत् त्वाम् आहुः सहसस् पुत्रम् अङ्गिरः ॥
तुभ्येदम् अग्ने मधुमत्तमं वचस् तुभ्यं मनीषा इयम् अस्तु शं हृदे ।
त्वां गिरः सिन्धुम् इवावनीर् महीर् आपृणन्ति शवसा वर्धयन्ति च ॥
संसम् इद् युवसे वृषन्न् अग्ने विश्वान्य् अर्य आ ।
इडस्पदे समिध्यसे स नो वसून्य् आभर ॥
अग्निं वः पूर्व्यं गिरा देवम् ईडे वसूनाम् ।
सपर्यवः पुरुप्रियं मित्रं न क्षेत्रसाधसम् ॥
त्वां चित्रश्रवस्तम हवन्ते विक्षु जन्तवः ।
शोचिष्केशं पुरुप्रियाग्ने हव्याय वोढवे ॥
आ ते अग्न इधीमहि द्युमन्तं देवाजरम् ।
यद् ध स्या ते पनीयसी समिद् दीदयति द्यवीषं स्तोतृभ्या आभर ॥
अग्निं तं मन्ये यो वसुर् अस्तं यं यन्ति धेनवः ।
अस्तम् अर्वन्त आशवो ऽस्तं नित्यासो वाजिन इषं स्तोतृभ्या आभार ॥
सो अग्निर् यो वसुर् गृणे सं यम् आयन्ति धेनवः ।