०५

उतो ना उत् पुपूर्या उक्थेषु शवसस्पत इषं स्तोतृभ्या आभर ॥म्स्_२,१३।५॥

इन्द्रो दधीचो अस्थभिर् वृत्राण्य् अप्रतिष्कुतः ।
जघान नवतीर् नव ॥

अत्राह गोर् अमन्वत नाम त्वष्टुर् अपीच्यम् ।
इत्था चन्द्रमसो गृहे ॥

इछन्न् अश्वस्य यञ् शिरः पर्वतेष्व् अपश्रितम् ।
अविन्दञ् शर्यणावति ॥

इन्द्रम् इद् गाथिनो बृहद् इन्द्रम् अर्केभिर् अर्किणः ।
इन्द्रं वाणीर् अनूषत ॥

इन्द्रो दीर्घाय चक्षसा आ सूर्यं रोहयद् दिवि ।
वि गोभिर् अद्रिम् ऐरयत् ॥

इन्द्रा इद् धर्योः सचा सम्मिश्ला आ वचोयुजा ।
इन्द्रो वर्जी हिरण्ययः ॥

इन्द्र वाजेषु नो ऽव सहस्रप्रधनेषु च ।
उग्र उग्राभिर् ऊतिभिः ॥

तम् इन्द्रं वाजयामसि महे वृत्राय हन्तवे ।
स वृषा वृषभो भुवत् ॥

इन्द्रः स दामने कृत ओजिष्ठः स बले हितः ।
द्युम्नी श्लोकी स सोम्यः ॥

गिरा वज्रो न सम्भृतः सबलो अनपच्युतः ।