ऋचा त्वा छन्दसा सादयामि वषट्कारेण त्वा छन्दसा सादयामि हिङ्कारेण त्वा छन्दसा सादयामि प्रस्तावेन त्वा छन्दसा सादयाम्य् उद्गीथेन त्वा छन्दसा सादयामि प्रतिहारेण त्वा छन्दसा सादयामि स्तुतेन त्वा छन्दसा सादयामि निधनेन त्वा छन्दसा सादयामि ॥म्स्_२,१३।४॥
दूतं वो विश्वदेवसं हव्यवाहम् अमर्त्यम् ।
यजिष्ठम् ऋञ्जसे गिरा ॥
अगन्म महा नमसा यविष्ठं यो दीदाय समिद्धः स्वे दुरोणे ।
चित्रभानुं रोदसी अन्तर् उर्वी स्वाहुतं विश्वतः प्रत्यञ्चम् ॥
अयम् इह ॥
दधन्वे वा यद् ईम् अनु वोचद् ब्रह्माणि वेर् उ तत् ।
परि विश्वानि काव्या नेमिश् चक्रम् इवाभुवत् ॥
ओभे सुश्चन्द्र विश्पते दर्वी श्रीणीष आसनि ।