०६

विश्वे देवा हविर् इदं जुषन्ताम् ॥म्स्_२,१२।६॥

सम् अन्या यन्त्य् उपयन्त्य् अन्याः समानम् ऊर्वं नद्यः पृणन्ति ।
तम् उ शुचिं शुचयो दीदिवांसम् अपां नपातं परितस्थुर् आपः ॥

हिरण्यवर्णः स हिरण्यसन्दृग् अपां नपात् सेद् उ हिरण्यवर्णः ।
हिरण्ययात् परि योनेर् निषद्य हिरण्यदा ददत्य् अन्नम् अस्मै ॥

हिरण्यवर्णाः शुचयः पावका यासु जातः कश्यपो यास्व् इन्द्रः ।
अग्निं या गर्भं दधिरे विरूपास् ता ना आपः शं स्योना भवन्तु ॥

यासां राजा वरुणो याति मध्ये सत्यानृते अवपश्यन् जनानाम् ।
मधुश्चुतः शुचयो याः पावकास् ता ना आपः शं स्योना भवन्तु ॥

यासां देवा दिवि कृण्वन्ति भक्षं या अन्तरिक्षे बहुधा भवन्ति ।
याः पृथिवीं पयसोन्दन्ति शुक्रास् ता ना आपः शं स्योना भवन्त ॥

शिवेन मा चक्षुषा पश्यतापः शिवया तन्वोपस्पृशत त्वचं मे ।
सर्वं अग्नींर् अप्सुषदो हुवे मयि वर्चो बलम् ओजो निधत्त ॥

यद् अदः सम्प्रयतीर् अहा अनदता हते ।
तस्माद् आ नद्यो नाम स्थ ता वो नामानि सिन्धवः ॥

सम्प्रच्युता वरुणेन यञ् शीभं समवल्गत ।
तद् आप्नोद् इन्द्रो वो यतीस् तस्माद् आपो अनुष्ठन ॥

अपकामं स्यन्दमाना अवीवरत वो हि कम् ।
इन्द्रो वः शक्तिभिर् देवीस् तस्माद् वार् नाम वो हितम् ॥

एको वो देवो अप्यतिष्ठत् स्यन्दमाना यथावशम् ।
उदानिषुर् महीर् इति तस्माद् उदकम् उच्यते ॥

आद् इत् पश्याम्य् उत वा शृणोम्य् आ मा घोषो गछति वार् न्व् आसाम् ।
तीव्रो रसो मधुपृचाम् अरङ्गम आ मा प्राणेन सह वर्चसागन् ॥

आपो देवीर् घृतमिन्वा ऊ आपो अग्नीषोमौ बिभ्रत्य् आपा इत् ताः ।
मन्ये भेजानो अमृतस्य तर्हि हिरण्यवर्णा अतृपं यदा वः ॥

आपो हि ष्ठेति तिस्रः ॥