देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम् ॥म्स्_२,१२।५॥
ऊर्ध्वा अस्य समिधो भवन्त्य् ऊर्ध्वा शुक्रा शोचींष्य् अग्नेः ।
द्युमत्तमा सुप्रतीकस्य सूनोः ॥
तनूनपाद् असुरो विश्ववेदा देवो देवेभ्यो देवयानान्
पथो अनक्तु मध्वा घृतेन ।
मध्वा यज्ञं नक्षति प्रीणानः ॥
नराशंसो अग्निः सुकृद् देवः सविता विश्ववारः ।
अछायम् एति शवसा घृतेन ॥
ईडानो वह्निर् नमसाग्निं स्रुचो अध्वरेषु प्रयत्सु ।
स यक्षद् अस्य महिमानम् अग्नेः ।
स ईं मन्द्रा सुप्रयसा स्तरीमन् । बर्हिषो मित्रमहाः ।
वसुश् चेतिष्ठो वसुधातमश् च ॥
द्वारो देवीर् अन्व् अस्य विश्वा व्रता ददन्ते अग्नेः ।
उरुव्यचसो धाम्ना पत्यमानाः ॥
ते अस्य योषणे दिव्ये न योना उषासानक्ता ।
इमं यज्ञम् अवताम् अध्वरं नः ॥
दैव्या होतारा ऊर्ध्वम् इमम् अध्वरं नो ऽग्नेर् जिह्वाभिगृणीतम् ।
कृणुतं नः स्विष्टम् ॥
तिस्रो देवीर् बर्हिर् एदं स्योनम् इडा सरस्वती मही ।
भारती गृणाना ॥
तन् नस् तुरीपम् अद्भुतं पुरुक्षु त्वष्टः सुवीर्यम् ।
रायस्पोषं विष्य नाभिम् अस्मे ॥
वनस्पते ऽवसृजा रराणस् त्मना देवेभ्यः ।
अग्निर् हव्यं शमिता सूदयाति ॥
अग्ने स्वाहा कृणुहि जातवेदा इन्द्राय देवेभ्यः ।