०४

अयं ते ॥म्स्_२,१२।४॥

समास् त्वाग्न ऋतवो वर्धयन्तु संवत्सरा ऋषयो यानि सत्या ।
सं दिव्येन दीदिहि रोचनेन विश्वा आभाहि प्रदिशश् चतस्रः ॥

सं चेध्यस्वाग्ने प्र च बोधयैनम् उच् च तिष्ठ महते सौभगाय ।
मा च रिषद् उपसत्ता ते अग्ने ब्रह्माणस् ते यशसः सन्तु मान्ये ॥

त्वाम् अग्ने वृणते ब्राह्मणा इमे शिवो अग्ने संवरणे भवा नः ।
सपत्नहाग्ने अभिमातिजिद् भव स्वे गये जागृह्य् अप्रयुछन् ॥

इहैवाग्ने अधिधारया रयिं मा त्वा निक्रन् पूर्वचित्तौ निकारिणः ।
क्षत्रम् अग्ने सुयमम् अस्तु तुभ्यम् उपसत्ता वर्धतां ते अनिष्टृतः ॥

क्षत्रेणाग्ने स्वेन संरभस्व मित्रेणाग्ने मित्रधेये यतस्व ।
सजातानां मध्यमेष्ठेयाय राज्ञाम् अग्ने विहष्यो दीदिहीह ॥

अति निहो अति सृधो अत्य् अचित्तिम् अति निरृतिम् अद्य ।
विश्वा ह्य् अग्ने दुरिता तर त्वम् अथास्मभ्यं सहवीरं रयिं दाः ॥

अनाधृष्यो जातवेदा अनिष्टृतो विराड् अग्ने क्षत्रभृद् दीदिहीह ।
व्य् अमीवाः प्रमुञ्चन् मानुषाणां शिवेभिर् अद्य परिपाहि नो वृधे ॥

बृहस्पते सवितर् बोधयैनं संशितं चित् सन्तरं संशिशाधि ।
वर्धयैनं महते सौभगाय विश्वे चैनम् अनुमदन्तु देवाः ॥

अमुत्रभूयाद् अध यद् यमस्य बृहस्पते अभिशस्तेर् अमुञ्चः ।
प्रत्यूहताम् अश्विना मृत्युम् अस्माद् देवानाम् अग्ने भिषजा शचीभिः ॥

उद् वयं तमसस् परि ज्योतिः पश्यन्ता उत्तरम् ।