०३

इष्टो अग्निर् आहुतः पिपर्तु न इष्टं हविः स्वगेदं देवेभ्यो नमः ॥म्स्_२,१२।३॥
यत्तिभिर् : फ़्न् १।४।१:४८।४: यतिभिर्

येना ऋषयस् तपसा सत्रम् आसतेन्धाना अग्निं स्वर् आभरन्तः ।
यम् आहुर् मनवः स्तीर्णबर्हिषं तस्मिन्न् अहं निदधे नाके अग्निम् ॥
स्वर् : फ़्न् एमेन्देद्। एद्।: स्वर्।

तं पत्नीभिर् अनुगछेम देवाः पुत्रैर् भ्रातृभिर् उत वा हिरण्यैः ।
नाकं गृभ्णानाः सुकृतस्य लोके तृतीये पृष्ठे अधि रोचने दिवः ॥

आ वाचो मध्यम् अरुहद् भुरण्युर् अयम् अग्निः सत्पतिश् चेकितानः ।
पृष्ठे पृथिव्या निहितो दविद्युतद् अधस्पदं कृणुतां ये पृतन्यवः ॥

अयम् अग्निर् वीरतमो वयोधाः सहस्रीयो ज्योतताम् अप्रयुछन् ।
विभ्राजमानः सलिलस्य मध्या उप प्रयाहि दिव्यानि धामन् ॥

अग्ने च्यवस्व सम् अनु प्रयाह्य् आविष् पथो देवयानान् कृणुष्व ।
इदमिदं सुकृतम् आरभस्व यत्रा ऋषयो जग्मुः प्रथमा ये पुराणाः ॥

सम्प्रच्यवध्वम् उप सं प्रयाताविष् पथो देवयानान् कृणुध्वम् ।
एभिः सुकृतैर् अनुगछेम देवा यत्र नः पूर्वे पितरः परेताः ॥

उद्बुध्यस्वाग्ने प्रतिजागृह्य् एनम् इष्टापूर्ते संसृजेथाम् अयं च ।
पुनः कृण्वन्तः पितरो युवानो ऽन्वातांसुस् तव तन्तुम् एतम् ॥

येन वहसि सहस्रं येनाग्ने सर्ववेदसम् ।
तेनेमं यज्ञं नो वह स्वर् देवेषु गन्तवे ॥