०२

ऋताषाड् ऋतधामाग्निर् गन्धर्वस् तस्यौषधयो ऽप्सरसो मुदा नाम स न इदं ब्रह्म क्षत्रं पातु ता न इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा वट् ताभ्यः स्वाहा वट् संहितो विश्वसामा सूर्यो गन्धर्वस् तस्य मरीचयो ऽप्सरस आयुवो नाम सुषुम्णः सूर्यरश्मिश् चन्द्रमा गन्धर्वस् तस्य नक्षत्राण्य् अप्सरसो बेकुरयो नामेषिरो विश्वव्यचा वातो गन्धर्वस् तस्यापो ऽप्सरसा ऊर्जो नाम भुजी सुपर्णो यज्ञो गन्धर्वस् तस्य दक्षिणा अप्सरसा एष्टयो नाम बृहस्पतिर् विश्वकर्मेन्द्रो गन्धर्वस् तस्य मरुतो ऽप्सरसा ओजो नाम प्रजापतिः परमेष्ठी मनो गन्धर्वस् तस्य ऋक्सामाण्य् अप्सरसः स्तवा नामामृडयो दूरेहेतिर् मृत्युर् गन्धर्वस् तस्य प्रजा अप्सरसो भीरवो नाम स नो भुवनस्य पते यस्य त उपरि गृहा विराट्पते ऽस्मै ब्रह्मणे ऽस्मै क्षत्राय महि शर्म यछ यस्य ते विश्वा आशा अप्सरसः प्लीया नाम स न इदं ब्रह्म क्षत्रं पातु ता न इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा वट् ताभ्यः स्वाहा वट् ॥म्स्_२,१२।२॥

समुद्रो ऽसि नभस्वान् आर्द्रदानुः शम्भूर् मयोभूर् अभि मा वाहि स्वाहावस्युर् असि दुवस्वाञ् छम्भूर् मयोभूर् अभि मा वाहि स्वाहा मारुतो ऽसि मरुतां गणः शम्भूर् मयोभूर् अभि मा वाहि स्वाहा सजूर् अब्दा आयवभिः सजूर् उषा आरुणीभिः सजोषा अश्विना दंसोभिः सजूः सूरा एतशेन सजूर् वैश्वानर इडया घृतेन स्वाहा ॥
इडया : फ़्न् एमेन्देद्। एद्।: ईडया। च्फ़्। ३।४।४:४९।११

अग्निं युनज्मि शवसा घृतेन दिव्यं सुपर्णं वयसं बृहन्तम् ।
तेन वयं पतेम ब्रध्नस्य विष्टपं स्वो रुहाणा अधि नाक उत्तमे ॥

इमौ ते पक्षा अजरौ पतत्रिणौ याभ्यां रक्षांस्य् अपहंस्य् अग्ने ।
ताभ्यां वयं पतेम सुकृताम् उलोकं यत्रा ऋषयो जग्मुः प्रथमा ये पुराणाः ॥

इन्दुर् दक्षः श्येन ऋतावा हिरण्यपक्षः शकुनो भुरण्युः ।
महान्त् सधस्थे ध्रुव आ निषत्तो नमस् ते अस्तु मा मा हिंसीः ॥

दिवो मूर्धासि नाभिः पृथिव्या ऊर्ग् अपाम् ओषधीनाम् ।
विश्वायुः शर्म सप्रथा नमस् पथे विश्वस्य मूर्धन्न् अधितिष्ठसि श्रितः ॥

समुद्रे ते हृदयम् अन्तर् आयुर् अपो दत्तोदधिं भिन्त ।
दिवः पर्जन्याद् अन्तरिक्षात् पृथिव्यास् ततो नो वृष्ट्यावत ॥

वि ते मुञ्चामि रशनां वि रश्मीन् वि योक्त्राणि परिचर्तनानि ।
धत्ताद् अस्मभ्यं द्रविणेह भद्रं प्र मा ब्रूताद् भागदां देवतासु ॥

इष्टो यज्ञो भृगुभिर् द्रविणोदा यत्तिभिर् आशीर्दा वसुभिः ।