०६

अग्निश् च घर्मश् चार्कश् च सूर्यश् च प्राणश् चाश्वमेधश् चादितिश् च पृथिवी च दितिश् च द्यौश् च शक्वरीर् अङ्गुलयो दिशश् च मे यज्ञेन कल्पन्ताम् ऋतुश् च व्रतं च संवत्सरश् च तपश् चाहोरात्रे ऊर्वष्टीवे बृहद्रथन्तरे च मे यज्ञेन कल्पेताम् एका च तिस्रश् चा त्रयस्त्रिंशतश् चतस्रश् चाष्टौ चाष्टाचत्वारिंशतस् त्र्यविश् च त्र्यवी च दित्यवाट् च दित्यौही च पञ्चाविश् च पञ्चवी च त्रिवत्सश् च त्रिवत्सा च तुर्यवाट् च तुर्यौही च पष्ठवाट् च पष्ठौही चोक्षा च वशा च ऋषभश् च वेहच् च धेनुश् चानड्वांश् च स्तोमश् च यजुश् च ऋक् च साम च दीक्षा च तपश् च बृहच् च रथन्तरं चौषधयो वनस्पतयो दिशश् च मे यज्ञेन कल्पन्ताम् अन्नाय त्वा वाजाय त्वा वाजजित्यायै त्वेषे त्वोर्जे त्वा रय्यै त्वा पोषाय त्वा ॥म्स्_२,११।६॥
च : फ़्न् चा ऋक्

विश्वे नो अद्य मरुतो विश्व ऊती विश्वे भवन्त्व् अग्नयः समिद्धाः ।
विश्वे नो देवा अवसागमन्न् इह विश्वम् अस्तु द्रविणं वाजो अस्मे ॥

वाजो मे सप्त प्रदिशश् चतस्रो वा परावतः ।
वाजो मा विश्वैर् देवैर् धनसाता इहावतु ॥

वाजः पुरस्ताद् उत मध्यतो नो वाजो देवान् ऋतुभिः कल्पयाति ।
वाजस्य हि प्रसवे नन्नमीति विश्व आशा वाजपतिर् भवेयम् ॥

वाजो मे अद्य प्रसुवाति दानं वाजो देवान् हविषा वर्धयाति ।
वाजो हि मा सर्ववीरं चकार सर्वा आशा वाजपतिर् जयेयम् ॥

सं मा सृजामि पयसा पृथिव्याः सं मा सृजाम्य् अद्भिर् ओषधीभिः ।
सो ऽहं वाजं सनेयम् अग्ने ॥

पयः पृथिव्यां पया ओषधीषु पयो दिव्य् अन्तरिक्षे पयो धाः ।