यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश् च मे विश्वं च मे महश् च मे संविच् च मे ज्ञात्रं च मे सूश् च मे प्रसूश् च मे सीरं च मे लयुश् च म ऊर्क् च मे सूनृता च मे पयश् च मे रसश् च मे घृतं च मे मधु च मे सग्धिश् च मे सपीतिश् च मे कृषिश् च मे वृष्टिश् च मे जैत्रं च मा औद्भेत्रं च मे रयिश् च मे रायश् च मे पुष्टं च मे पुष्टिश् च मे विभु च मे प्रभु च मे पूर्णं च मे पूर्णतरं च मे कुयवं च मे ऽक्षितिश् च मे ऽक्षुच् च मे ऽन्नं च मे व्रीहयश् च मे यवाश् च मे माषाश् च मे तिलाश् च मे ऽणवश् च मे प्रियङ्गवश् च मे श्यामाकाश् च मे नीवाराश् च मे गोधूमाश् च मे मसूराश् च मे मुद्गाश् च मे खर्वाश् च मे ॥म्स्_२,११।४॥