०१

शुक्रज्योतिश् च चित्रज्योतिश् च सत्यज्योतिश् च ज्योतिष्मांश् च सत्यश् च ऋतपाश् चात्यंहा ऋतजिच् च सत्यजिच् च सेनजिच् च सुषेणश् चान्तिमित्रश् च दूरेऽमित्रश् च गण ऋतश् च सत्यश् च ध्रुवश् च धरुणश् च धर्ता च विधर्ता च विधारय ईडृङ् चैतादृङ् च सदृङ् च प्रतिसदृङ् च मितश् च सम्मितश् च सभरा ईदृक्षास एतादृक्षास ऊ षु णः सदृक्षासः प्रतिसदृक्षासा एतन मितासश् च सम्मितासो न ऊतये सभरसो मरुतो यज्ञे अस्मिन्न् इन्द्रं दैवीर् विशो मरुतो ऽनुवर्त्मानो यथेन्द्रं दैवीर् विशो मरुतो ऽनुवर्त्मानो ऽभवन्न् एवम् इमं यजमानं दैवीश् च विशो मानुषीश् चानुवर्त्मानो भवन्तु ॥म्स्_२,११।१॥