०५

वाजस्य मा प्रसवेनेति द्वे ॥म्स्_२,१०।५॥

क्रमध्वम् अग्निना नाकम् उख्यं हस्तेषु बिभ्रतः ।
दिवः पृष्ठं स्वर् गत्वा मिश्रा देवेभिर् आध्वम् ॥

प्राचीम् अनु ॥

अग्ने प्रेहि प्रथमो देवायतां चक्षुर् देवानाम् उत मर्त्यानाम् ।
इयक्षमाणा भृगुभिः सह स्वर् यन्तु यजमानाः स्वस्ति ॥
स्वर् : फ़्न् एमेन्देद्। एद्।: स्वर्।

पृथिव्या अहम् उद् अन्तरिक्षम् आरुहम् अन्तरिक्षाद् दिवम् आरुहम् ।
दिवो नाकस्य पृष्ठात् स्वर् ज्योतिर् अगाम् अहम् ॥
उद् : फ़्न् एमेन्देद्। एद्।: उद्।

स्वर् यन्तो नापेक्षन्ता आ द्यां रोहन्ति रोदसी ।
यज्ञं ये विश्वतोधारं सुविद्वांसो वितेनिरे ॥
स्वर् : फ़्न् एमेन्देद्। एद्।: स्वर्।

नक्तोषासाग्ने सहस्राक्ष ॥

सुपर्णो ऽसि गरुत्मान् पृष्ठे पृथिव्याः सीद ।
भासान्तरिक्षम् आपृण ज्योतिषा दिवम् उत्तभान तेजसा दिशा उद्दृम्ह ॥

आजुह्वानः सुप्रतीकः पुरस्ताद् अग्ने स्वं योनिम् आसीद साध्या ।
अस्मिन्त् सधस्थे अध्य् उत्तरस्मिन् विश्वे देवा यजमानश् च सीदत ॥

तां सवितुर् वरेण्यस्य चित्राम् आहं वृणे सुमतिं विश्वजन्याम् ।
याम् अस्य कण्वो अदुहत् प्रपीनां सहस्रधारां पयसा महीं गाम् ॥

विधेम ते परमे जन्मन्न् अग्ने विधेम स्तोमैर् अवरे सधस्थे ।
यस्माद् योनेर् उदारिथा यजा तं प्र त्वे समिद्धे जुहुरे हवींषि ॥

प्रेद्धो अग्ने दीदिहि पुरो नो ऽजस्रया सूर्म्या यविष्ठ ।
तां शश्वन्ता उपयन्ति वाजाः ॥

अग्ने तम् अद्य सप्त ते अग्ने ॥

चितिं जुहोमि मनसा यथा देवा इहागमन् ।
वीतिहोत्रा ऋतावृधः ॥

समुद्रस्य वो वयुनस्य पत्मन् जुहोमि विश्वकर्मणे ।