०४

अस्माकं वीरा उत्तरे भवन्त्व् अस्मान् उ देवा अवता भरेष्व् आ ॥म्स्_२,१०।४॥

उद् उ त्वा ॥

पञ्च दिशो दैवीर् यज्ञम् अवन्तु देवीर् अपामतिं दुर्मतिं बाधमानाः ।
रायश्पोषे यज्ञपतिम् आभजन्ती रायस्पोषे अधि यज्ञो अस्थात् ॥

समिद्धे अग्ना अधि मामहान उक्थपत्रा ईड्यो गृभीतः ।
तप्तं घर्मं परिगृह्यायजन्तोर्जा यद् यज्ञम् अशमन्त देवाः ॥

दैव्याय धात्रे देष्ट्रे देवश्रीः श्रीमनाः शतपात् ।
परिगृह्य यज्ञम् आयन् ॥

हरिकेशः सूर्यरश्मिः पुरस्तात् सविता ज्योतिर् उदयं अजस्रम् ।
तस्य पूषा प्रसवे याति विद्वान्त् सम्पश्यन् विश्वा भुवनानि गोपाः ॥

देवा देवेष्व् अध्वर्यन्तो अस्थुर् वीतं शमित्रा शमितं यजध्यै ।
तुरीयो यज्ञो यत्र हव्यम् एति ततो वाका आशिषो नो जुषन्ताम् ॥

इन्द्रं विश्वा अवीवृधन्त् समुद्रव्यचसं गिरः ।
रथीतमं रथीनां वाजानां सत्पतिं पतिम् ॥

विमान एष दिवो मध्य आस्त आपपृवान् रोदसी अन्तरिक्षम् ।
स विश्वाचीर् अभिचष्टे घृताचीर् अन्तरा पूर्वम् अपरं च केतुम् ॥

उक्षा समुद्रे अरुणः सुपर्णः पूर्वस्य योनिं पितुर् आविवेश ।
मध्ये दिवो निहितः पृश्निर् अश्मा विचक्रमे रजसस् पात्य् अन्तौ ॥

सुम्नहूर् यज्ञ आ च वक्षद् यक्षद् अग्निर् देवो देवं आ च वक्षत् ।
देवहूर् यज्ञ आ च वक्षद् यक्षद् अग्निर् देवो देवं आ च वक्षत् ॥