०३

नीहारेण प्रावृता जल्प्या चासुतृप उक्थशासश् चरन्ति ॥म्स्_२,१०।३॥

उद् एनम् उत्तरं नयाग्ने घृतेनाहुत ।
सम् एनं वर्चसा सृज प्रजया च बहुं कृधि ॥

इन्द्रेमं प्रतरं नय सजातानाम् असद् वशी ॥

रायस्पोषेण संसृज देवेभ्यो भागदा असत् ॥

यस्य कुर्मो गृहे हविस् तम् अग्ने वर्धया त्वम् ।
तस्मै देवा अधिब्रुवन्न् अयं च ब्रह्मणस्पतिः ॥

आशुः शिशानो वृषभो न युध्मो घनाघनः क्षोभनश् चर्षणीनाम् ।
सङ्क्रन्दनो ऽनिमिष एकवीरः शतं सेना अजयत् साकम् इन्द्रः ॥

सङ्क्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना ।
तद् इन्द्रेण जयत तत् सहध्वं युधो नरा इषुहस्तेन वृष्णा ॥

स इषुहस्तैः स निषङ्गिभिर् वशी संसृष्टासु युत्स्व् इन्द्रो गणेषु ।
संसृष्ठजित् सोमपा बाहुशर्ध्य् ·र्ध्वधन्वा प्रतिहिताभिर् अस्ता ॥

बृहस्पते परिदीया रथेन रक्षोहामित्रं अपबाधमानः ।
प्रभञ्जन्त् सेनाः प्रमृणो युधा जयन्न् अस्माकम् एध्य् अविता रथानाम् ॥

अभि गोत्राणि सहसा गाहमान आदायो वीरः शतमन्युर् इन्द्रः ।
दुश्च्यवनः पृतनाषाड् अयोध्यो ऽस्माकं सेना अवतु प्र युत्सु ॥

बलविज्ञायः स्थविरः प्रवीरः सहस्वान् वाजी सहमान उग्रः ।
अभिवीरो अभिसत्वा सहोजिज् जैत्रम् इन्द्र रथम् आतिष्ठ गोवित् ॥

गोत्रभिदं गोविदं वज्रबाहुं जयन्तम् अज्म प्रमृणन्तम् ओजसा ।
इमं सजाता अनुवीरयध्वम् इन्द्रं सखायो अनु संरभध्वम् ॥

इन्द्र एषां नेता बृहस्पतिर् दक्षिणा यज्ञः पुर एतु सोमः ।
देवसेनानाम् अभिभञ्जतीनां जयन्तीनां मरुतो यन्तु मध्ये ॥

इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुतां शर्ध उग्रम् ।
महामनसां भुवनच्यवानां घोषो देवानां जयताम् उदस्थात् ॥

अस्माकम् इन्द्रः समृतेषु ध्वजेष्व् अस्माकं या इषवस् ता जयन्तु ।