स नो नेदिष्ठा हवना जुजोष विश्वशम्भूर् अवसे साधुकर्मा ॥म्स्_२,१०।२॥
चक्षुषः पिता मनसा हि धीरो घृतम् एने अजनन् नम्नमाने ।
यदेद् अन्ता अददृहन्त पूर्वा आद् इद् द्यावापृथिवी अप्रथेताम् ॥
विश्वकर्मा विममे यो विहाया धर्ता विधर्ता परमोत सन्दृक् ।
तेषाम् इष्टानि सम् इषा मदन्ति यत्रा सप्तऋषीन् पर एकम् आहुः ।
त आयजन्त द्रविणा सम् अस्मिन्न् ऋषयः पूर्वे जरितारो न भूना ।
असूर्ता सूर्ते रजसि निषत्ता ये भूतानि समकृण्वन्न् इमानि ॥
यो नः पिता जनिता यो विधर्ता यो नः सतो अभ्य् आ सज् जजान ।
यो देवानां नामधा एक एव तं सम्प्रश्नं भुवना यन्त्य् अन्या ॥
परो दिवः पर एना पृथिव्याः परो देवेभ्यो असुरं यद् अस्ति ।
कं स्विद् गर्भं प्रथमं दध्रा आपो यत्र देवाः समगछन्त सर्वे ।
तम् इद् गर्भं प्रथमं दध्रा आपो यत्र देवाः समपश्यन्त विश्वे ।
अजस्य नाभा अध्य् एकम् अर्पितं यस्मिन् विश्वा भुवनाधि तस्थुः ॥
विश्वकर्मा चेद् अजनिष्ट देव आद् इद् गन्धर्वो अभवद् द्वितीयः ।
तृतीयः पिता जनितौषधीनाम् अपां गर्भं व्यदधुः पुरुत्रा ॥
न तं विदाथ य इमा जजानान्यद् युष्माकम् अन्तरं बभूव ।