अन्यांस् ते अस्मत् तपन्तु हेतयः पावको अस्मभ्यं शिवो भव ॥म्स्_२,१०।१॥
अग्निस् तिग्मेन शोचिषा यासद् विश्वं न्य् अत्रिणम् ।
अग्निर् नो वनते रयिम् ॥
य इमा विश्वा भुवनानि जुह्वद् ऋषिर् होता न्यसीदत् पिता नः ।
स आशिषा द्रविणम् इछमानः प्रथमछद् अवरं आविवेश ॥
किं स्विद् वनं क उ स वृक्ष आसीद् यतो द्यावापृथिवी निष्टतक्षुः ।
मनीषिणो मनसा पृछतेद् उ तद् यद् अध्यतिष्ठद् भुवनानि धारयन् ॥
किं स्विद् आसीद् अधिष्ठानम् आरम्भणं कतमत् स्वित् कथासीत् ।
यतो भूमिं जनयन् विश्वकर्मा वि द्याम् और्णोन् महिना विश्वचक्षाः ।
यो विश्वचक्षुर् उत विश्वतोमुखो विश्वतोहस्त उत विश्वतस्पात् ।
सं बाहुभ्याम् अधमत् सं पतत्रैर् द्यावाभूमी जनयन् देव एकः ॥
या ते धामानि परमाणि यावमा या मध्यमा विश्वकर्मन्न् उतेमा ।
शिक्षा सखिभ्यो हविषा स्वधावः स्वयं यजस्व तन्वं जुषाणः ॥
विश्वकर्मन् हविषा वर्धनेन त्रातारम् इन्द्रम् अकृणोर् अवध्यम् ।
तस्मै विशः समनमन्त दैवीर् अयम् उग्रो विहव्यो यथासत् ॥
विश्वकर्मन् हविषा वावृधानः स्वयं यजस्व पृथिवीम् उत द्याम् ।
मुह्यन्त्व् अन्ये अभितो जनास इहास्माकं मघवा सूरिर् अस्तु ॥
वाचस्पतिं विश्वकर्माणम् ऊतये मनोयुजं वाजे अद्याहुवेम ।