१०

आवाहितम् आवाहित नमस्कृतं नमस्कृत विसर्जितं विसर्जित पथं गछ पथं गछ दिवं गछ दिवं गछ स्वर् गछ स्वर् गछ ज्योतिर् गछ ज्योतिर् गछ नमस् ते अस्तु मा मा हिंसीः ॥म्स्_२,९।१०॥

अश्मन्न् ऊर्जं पर्वते शिश्रियाणाम् अद्भ्य ओषधीभ्यो वनस्पतिभ्यो ऽधि सम्भृताम् ।
तां ना इषम् ऊर्जं धत्त मरुतः संरराणा अश्मंस् ते क्षुन् मयि ता ऊर्ग् यं द्विष्मस् तं ते शुग् ऋछतु ॥

समुद्रस्य त्वावकायाग्ने परिव्ययामसि ।
पावको अस्मभ्यं शिवो भव ॥

हिमस्य त्वा जरायुणाग्ने परिव्यायमसि ।
पावको अस्मभ्यं शिवो भव ॥

उप ज्मन्न् उप वेतसे ऽवतर नदीष्व् आ ।
अग्ने पित्तम् अपाम् असि मण्डूकि ताभिर् आगहि ।
सेमं नो यज्ञं पावकवर्णं शिवं कृधि ॥

अपाम् इदं न्ययनं समुद्रस्य निवेशनम् ।
अन्यांस् ते अस्मत् तपन्तु हेतयः पावको अस्मभ्यं शिवो भव ॥

अग्ने पावक रोचिषा स नः पावक दीदिवः ॥

पावकया यश् चितयन्त्या कृपा क्षामन् रुरुच उषसो न केतुना ।
आ यो घृणे न ततृषाणो अजरस् तूर्वन् न यामन्न् एतशस्य नू रणे ॥

नमस् ते हरसे शोचिषे चाथो ते अर्चिषे नमः ।
अन्यांस् ते अस्मत् तपन्तु हेतयः पावको अस्मभ्यं शिवो भव ॥

द्रुषदे वण् नृषदे वड् अप्सुषदे वड् बर्हिषदे वड् वनर्षदे वट् स्वर्विदे वट् ॥

अन्नपते अन्नस्य नो देह्य् अनमीवस्य शुष्मिणः ।
प्रप्र दातारं तारिषा ऊर्जं नो धेहि द्विपदे चतुष्पदे ॥

ये देवा देवानां यज्ञिया यज्ञियानां संवत्सरीयम् उप भागम् आसते ।
अहुतादो हविषो यज्ञे अस्मिन्त् स्वयं पिबन्तु मधुनो घृतस्य ॥

ये देवा देवेभ्यो अधि देवत्वम् आयन् ये ब्रह्मणः पुरएतारो अस्य ।
येभ्यो न ऋते पवते धाम किं चन न ते दिवो न पृथिव्या अधि स्नुषु ॥

प्राणदा अपानदा व्यानदा वर्चोधा वरिवोधाः ।