नमः शिखण्डिने च पुलस्तिने च नमः किंशिलाय च क्षेणाय च नम इरिण्याय च प्रपथ्याय च नमो गृह्याय च गोष्ठ्याय च नमो गेह्याय च तल्प्याय च नमः कूल्याय च तीर्थ्याय च नमः पार्याय चावार्याय च नमः प्रतरणाय चोत्तरणाय च नमः प्रवाह्याय च सिकत्याय च नमः फेन्याय च शष्प्याय च नमो नीवेष्याय च हृद्याय च नमः काट्याय च गह्वरेष्ठ्याय च नमः शुष्याय च हरित्याय च नमः पांसव्याय च रजस्याय च नमो लोप्याय चोलपाय च नमा ऊर्म्याय च सूर्म्याय च नमः पर्णाय च पर्णशादाय च नमो ऽपगुरसाणाय चाभिघ्नते च नम आखिदते च प्रखिदते च नम आखिदाय च प्रखिदाय च ॥म्स्_२,९।८॥
नमो गिरिकेभ्यो देवानां हृदयेभ्यो नमो विचिन्वत्केभ्यो नम आक्षिणकेभ्यो नम आनृहतेभ्यः ॥
द्रापे अन्धसस्पते दरिद्र नीललोहित ।
एषां पशूनाम् आसां प्रजानां मा भैर् मा रुङ् मो च नः किं चनाममत् ॥
इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतीः ।
यथा नः शम् असद् द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे अस्मिन्न् अनातुरम् ॥
या ते रुद्र शिवा तनूः शिवा विश्वाह भेषजा ।
शिवा रुतस्य भेषजा तया नो मृड जीवसे ॥
परि नो रुद्रस्य हेतिर् वृणक्तु परि त्वेषस्य दुर्मतिर् अघायोः ।
अव स्थिरा मघवद्भ्यस् तनुष्व मीढ्वस् तोकाय तनयाय मृड ॥
मीढुष्टम शिवतम शिवो न एधि सुमना भव ।
अवतत्य धनुष् ट्वम् अक्रुद्धः सुमना भव ।
पिनाकं बिभ्रद् आगहि कृत्तिं वसाना उच्चर ॥
व्यकृड विलोहित नमस् ते अस्तु भगवः ।
यास् ते सहस्रं हेतयो ऽन्यांस् ते अस्मन् निवपन्तु ताः ॥
सहस्राणि सहस्रशो हेतयस् तव बाह्वोः ।
तासाम् ईशानो मघवन् पराचीना मुखा कृधि ॥
असङ्ख्याता सहस्राणि ये रुद्रा अधि भूम्याम् ।
तेषां सहस्रयोजने ऽव धन्वानि तन्मसि ॥
ये अस्मिन् महत्य् अर्णवे अन्तरिक्षे भवा अधि ।
तेषां सहस्रयोजने ऽव धन्वानि तन्मसि ॥
ये नीलग्रीवाः शितिकण्ठा दिवं रुद्रा उपश्रिताः ।
तेषां सहस्रयोजने ऽव धन्वानि तन्मसि ॥
ये नीलग्रीवाः शितिकण्ठाः शर्वा अधः क्षामाचराः ।
तेषां सहस्रयोजने ऽव धन्वानि तन्मसि ॥
ये वृक्षेषु शष्पिञ्जरा नीलग्रीवा विलोहिताः ।
तेषां सहस्रयोजने ऽव धन्वानि तन्मसि ॥
ये भूतानाम् अधिपतयो विशिखासः कपर्दिनः ।
तेषां सहस्रयोजने ऽव धन्वानि तन्मसि ॥
ये पथां पथिरक्षय ऐलमृडा वो युधः ।
तेषां सहस्रयोजने ऽव धन्वानि तन्मसि ॥
ये तीर्थानि प्रचरन्ति सृगवन्तो निषङ्गिणः ॥
तेषां सहस्रयोजने ऽव धन्वानि तन्मसि ॥
ये अन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान् ।
तेषां सहस्रयोजने ऽव धन्वानि तन्मसि ॥
य एतावन्तो वा भूयांसो वा दिशो रुद्रा वितस्थिरे ।
तेषां सहस्रयोजने ऽव धन्वानि तन्मसि ॥