०७

नमो दुन्दुभये चाहननीयाय च नमो धृष्णवे च प्रमृशाय च नमो निषङ्गिणे चेषुधिमते च नमस् तिग्मेषवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमो मेघ्याय च विद्युत्याय च नमो वर्ष्याय चावर्ष्याय च नमो वीध्रियाय चातप्याय च नमो वात्याय च रेष्मण्याय च नमो वास्तव्याय च वास्तुपाय च नमः सोमाय च रुद्राय च नमस् ताम्राय चारुणाय च नमः शङ्गवे च पशुपतये च नम उग्राय च भीमाय च नमो ऽग्रेवधाय च दूरेवधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस् ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च ॥म्स्_२,९।७॥