०६

नम आशुषेणाय चाशुरथाय च नमो बिल्मिने च कवचिने च नमो वर्मिणे च वरूथिने च नमः शूराय चावभिन्दते च नमः श्रुताय च श्रुतसेनाय च नमो ज्यायसे च कनीयसे च नमः पूर्वजाय चापरजाय च नमो मध्यमाय चापगल्भाय च नमो जघन्याय च बुध्न्याय च नमः सोभ्याय च प्रतिसराय च नमो याम्याय च क्षेम्याय च नमो ऽवसान्याय च श्लोक्याय च नम उर्वर्याय च खल्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नमः पथ्याय च स्रुत्याय च नमो नाद्याय च वैशन्ताय च नमो नीप्याय च भिद्याय च नमो ऽवट्याय च कूप्याय च नमः सूद्याय च सरस्याय च ॥म्स्_२,९।६॥