०४

नम इषुकृद्भ्यो धनुष्कृद्भ्यश् च वो नमो नमा इषुमद्भ्यो धन्वायिभ्यश् च वो नमो नम आतन्वानेभ्यः प्रतिदधानेभ्यश् च वो नमो नम आयछद्भ्यो विसृजद्भ्यश् च वो नमो नमो ऽस्यद्भ्यो विध्यद्भ्यश् च वो नमो नमः स्वपद्भ्यो जाग्रद्भ्यश् च वो नमो नमः शयानेभ्या आसीनेभ्यश् च वो नमो नमस् तिष्ठद्भ्यो धावद्भ्यश् च वो नमो नमः सभाभ्यः सभापतिभ्यश् च वो नमो नमो ऽश्वेभ्यो ऽश्वपतिभ्यश् च वो नमो नम आव्याधिनीभ्यो विविध्यन्तीभ्यश् च वो नमो नमा उगणाभ्यस् तृंहतीभ्यश् च वो नमो नमो गणेभ्यो गणपतिभ्यश् च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश् च वो नमो नमः कृछ्रेभ्यः कृछ्रपतिभ्यश् च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश् च वो नमो नमः सेनाभ्यः सेनानीभ्यश् च वो नमो नमो रथिभ्यो वरूथिभ्यश् च वो नमो नमः क्षत्तृभ्यः सङ्ग्रहीतृभ्यश् च वो नमो नमो बृहद्भ्यो ऽर्भकेभ्यश् च वो नमो नमो युवभ्य आशीनेभ्यश् च वो नमो नमः ॥म्स्_२,९।४॥