नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो नमः शष्पिञ्जराय त्विषीमते पथीनां पतये नमो नमो बभ्लुशाय व्याधिने ऽन्नस्य पतये नमो नमो रुद्रायाततायिने क्षेत्रस्य पतये नमो नमो भवस्य हेत्यै जगतस् पतये नमो नमः सूतायाहन्त्वाय वनानां पतये नमो नमो रोहिताय स्थपतये वृक्षाणां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनां पतये नमो नमः सहमानाय निव्याधिन आव्याधिनीनां पतये नमो नम आक्रन्दयत उच्चैर्घोषाय सत्वानां पतये नमो नमः कृत्स्नवीताय धावते पत्तीनां पतये नमो नमो निषङ्गिणे ककुभाय स्तेनानां पतये नमो नमो वञ्चते परिवञ्चते स्तायूनां पतये नमो नमो निचेरवे परिचरायारण्यानां पतये नमो नमो निषङ्गिण इषुधिमते तस्कराणां पतये नमो नमः सृगायिभ्यो जिघांसद्भ्यो मुष्णतां पतये नमो नमो ऽसिमद्भ्यो नक्तं चरद्भ्यः प्रकृन्तानां पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो नमः ॥म्स्_२,९।३॥