तन् नः सृष्टिः प्रचोदयात् ॥म्स्_२,९।१॥
नमस् ते रुद्र मन्यव उतो ता इषवे नमः ।
नमस् ते अस्तु धन्वने बाहुभ्याम् उत ते नमः ॥
या ते रुद्र शिवा तनूर् अघोरापापकाशिनी ।
तया नस् तन्वा शन्तमया गिरिशन्ताभिचाकशीहि ॥
याम् इषुं गिरिशन्त हस्ते बिभर्ष्य् अस्तवे ।
शिवां गिरिश तां कुरु मा हिंसीः पुरुषं जगत् ॥
शिवेन वचसा त्वा गिरिशाछा वदामसि ।
यथा नः सर्वा इज् जनः सङ्गमे सुमना असत् ॥
अध्यवोचद् अधिवक्ता प्रथमो दैव्यो भिषक् ।
अहींश् च सर्वान् जम्भयन्त् सर्वाश् च यातुधान्यो ऽधराचीः परासुव ॥
असौ यस् ताम्रो अरुण उत बभ्रुः सुमङ्गलः ।
ये चेमे अभितो रुद्रा दिक्षु श्रिताः सहस्रशो ऽवैषां हेड ईमहे ॥
असौ यो ऽवसर्पति नीलग्रीवो विलोहितः ।
उतैनं गोपा अदृश्रन्न् उतैनम् उदहार्यः ।
उतैनं विश्वा भूतानि स दृष्टो मृडयातु नः ॥
नमो नीलकपर्दाय सहस्राक्षाय मीढुषे ।
अथो ये अस्य सत्वान इदं तेभ्यो ऽकरं नमः ॥
नमस् ता आयुधायानातताय धृष्णवे ।
उभाभ्याम् उत ते नमो बाहुभ्यां तव धन्वने ॥
प्रमुञ्च धन्वनस् त्वम् उभयोर् आर्त्न्योर् ज्याम् ।
याश् च ते हस्ता इषवः परा ता भगवो वप ॥
अवतत्य धनुष् ट्वं सहस्राक्ष शतेषुधे ।
प्रशीर्य शल्यानां मुखं शिवो नः सुमना भव ॥
विज्यं धनुः कपर्दिनो विशल्यो बाणवं उत ।
अनेशन्न् अस्य या इषव आभूर् अस्य निषङ्गथिः ॥
परि ते धन्वनो हेतिर् अस्मान् वृणक्तु विश्वतः ।
अथो य इषुधिस् तवारे अस्मिन् निधेहि तम् ॥
या ते हेतिर् मीढुष्टम शिवं बभूव ते धनुः ।