आयोष् ट्वा सदने सादयामि समुद्रस्योद्मन्न् अवतश् छायायां नमः समुद्राय नमः समुद्रस्य चक्षसे सहस्रस्य मासि सहस्रस्य प्रमासि सहस्रस्य प्रतिमासि सहस्रस्य सम्मासि सहस्रस्योन्मासि साहस्रो ऽसि सहस्राय त्वेमा मे अग्ना इष्टका धेनवः सन्त्व् एका च शतं च शतं च सहस्रं च सहस्रं चायुतं चायुतं च प्रयुतं च प्रयुतं चायुतं च ओ अर्बुदं च न्यर्बुदं च समुद्रश् च मध्यं चान्तश् च परार्धश् चेमा मे अग्ना इष्टका धेनवः सन्तु षष्टिः सहस्रम् अयुतम् अक्षीयमाणा ऋतुष्ठाः स्थ ऋतावृधो घृतश्चुतो मधुश्चुता ऊर्जस्वतीः पयस्वतीः स्वधायिनीः कुलायिनीस् ता मे अग्ना इष्टका धेनवः सन्तु विराजो नाम कामदुघा अमुत्रामुष्मिंल् लोके ॥म्स्_२,८।१४॥
आ त्वा वहन्तु हरयः सुचेतसः श्वेतैर् अश्वैर् इह केतुमद्भिः ।
वातजवैर् बलवद्भिर् मनोजवैर् अस्मिन् यज्ञे मम हव्याय शर्व ॥
देवानां च ऋषीणां चासुराणां च पूर्वजम् ।
महादेवं सहस्राक्षं शिवम् आवाहयाम्य् अहम् ॥
तत् पुरुषाय विद्महे महादेवाय धीमहि ।
तन् नो रुद्रः प्रचोदयात् ॥
तद् गाङ्गौच्याय विद्महे गिरिसुताय धीमहि ।
तन् नो गौरी प्रचोदयात् ॥
तत् कुमाराय विद्महे कार्त्तिकेयाय धीमहि ।
तन् नः स्कन्दः प्रचोदयात् ॥
तत् कराटाय विद्महे हस्तिमुखाय धीमहि ।
तन् नो दन्ती प्रचोदयात् ॥
तच् चतुर्मुखाय विद्महे पद्मासनाय धीमहि ।
तन् नो ब्रह्मा प्रचोदयात् ॥
तत् केशवाय विद्महे नारायणाय धीमहि ।
तन् नो विष्णुः प्रचोदयत् ॥
तद् भास्कराय विद्महे प्रभाकराय धीमहि ।
तन् नो भानुः प्रचोदयात् ॥
तत् सोमराजाय विद्महे महाराजाय धीमहि ।
तन् नश् चन्द्रः प्रचोदयात् ॥
तज् ज्वलनाय विद्महे वैश्वानराय धीमहि ।
तन् नो वह्निः प्रचोदयात् ॥
तत् त्यजपाय विद्महे महाजपाय धीमहि ।
तन् नो ध्यानः प्रचोदयात् ॥
तत् परमात्माय विद्महे वैनतेयाय धीमहि ।