१३

पुरोवातसनिर् अस्य् अभ्रसनिर् असि विद्युत्सनिर् असि स्तनयित्नुसनिर् असि वृष्टिसनिर् अस्य् अग्नेर् यान्य् अस्य् अग्नेर् अग्नेयान्य् असि वायोर् यान्य् असि वायोर् वायोयान्य् असि देवानां यान्य् असि देवानां देवयान्य् असि विश्वेषां देवानां यान्य् असि विश्वेषां देवानां देवयान्य् असि संयान्य् अस्य् अन्तरिक्षसद् अस्य् अन्तरिक्षे सीदाम्बा च बुला च नितत्नी च स्तनयन्ती चाभ्रयन्ती च मेघयन्ती च चुपुणीका सलिलाय त्वा मृदीकाय त्वा सतीकाय त्वा केताय त्वा सुकेताय त्वा सकेताय त्वा विवस्वते त्वा दिवे त्वा ज्योतिष आदित्येभ्यस् त्वा ॥म्स्_२,८।१३॥

उदपुरा नामास्य् अन्नेन विष्ठा तां त्वा प्रैम्य् आत्मना पुरुषैर् गोभिर् अश्वैर् आयुषा वर्चसा प्रजया धनेन सन्या मेधया रय्या पोषेण मनुष्यास् ते गोप्तारो ऽग्निर् अधिपतिस् तया देवतयाङ्गिरस्वद् ध्रुवा सीदापराजिता नामासि ब्रह्मणा विष्टा तां त्वा प्रैम्य् आत्मना पुरुषैर् गोभिर् अश्वैर् आयुषा वर्चसा प्रजया धनेन सन्या मेधया रय्या पोषेण मरुतस् ते गोप्तारो वायुर् अधिपतिस् तया देवतयाङ्गिरस्वद् ध्रुवा सीदाधिद्यौर् नामास्य् अमृतेन विष्टा तां त्वा प्रैम्य् आत्मना पुरुषैर् गोभिर् अश्वैर् आयुषा वर्चसा प्रजया धनेन सन्या मेधया रय्या पोषेण विश्वे ते देवा गोप्तारः सूर्यो ऽधिपतिस् तया देवतयाङ्गिरस्वद् ध्रुवा सीद प्रजापतिष् ट्वा सादयतु पृथिव्याः पृष्ठे भूर् असि भूमिर् असि प्रथो ऽसि पृथिव्य् अस्य् अदितिर् असि विश्वधाया विश्वस्य भुवनस्य धर्त्री पृथिवीं यछ पृथिवीं दृम्ह पृथिवीं मा हिंसीः पृथिव्या मा पाहि विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्रायाग्निष् ट्वाभिपातु मह्या स्वस्त्या छर्दिषा शन्तमेन विश्वकर्मा सादयत्व् अन्तरिक्षस्य पृष्ठे ऽन्तरिक्षं यछान्तरिक्षं दृंहान्तरिक्षं मा हिंसीर् अन्तरिक्षान् मा पाहि विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय वायुष् ट्वाभिपातु मह्या स्वस्त्या छर्दिषा शन्तमेन परमेष्ठी त्वा सादयतु दिवः पृष्ठे व्यचस्वतीं प्रथस्वतीं भास्वतीं रश्मीवतीम् आ या दिवं भास्या पृथिवीम् ओर्व् अन्तरिक्सं दिवं यछ दिवं दृम्ह दिवं मा हिंसीर् दिवो मा पाहि विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय सूर्यस् त्वाभिपातु मह्या स्वस्त्या छर्दिषा शन्तमेन ॥

प्रोथद् अश्वो न यवसे ऽविष्यन् यदा महः संवरणाद् व्यस्थात् ।
आद् अस्य वातो अनुवाति शोचिर् अध स्मा ते व्रजनं कृष्णम् अस्तु ॥