प्राच्या त्वा दिशा सादयाम्य् अग्निना देवेन देवतया गायत्रेण छन्दसाग्नेः शिरा उपदधामि गायत्रस्य छन्दसो ऽग्नेः शीर्ष्णाग्नेः शिरा उपदधामि दक्षिणया त्वा दिशा सादयामीन्द्रेण देवेन देवतया त्रैष्टुभेन छन्दसाग्नेः पक्षम् उपदधामि त्रैष्टुभस्य छन्दसो ऽग्नेः पक्षेणाग्नेः पक्षम् उपदधामि प्रतीच्या त्वा दिशा सादयामि विश्वेभिर् देवेभिर् देवतया जागतेन छन्दसाग्नेः पुछम् उपदधामि जागतस्य छन्दसो ऽग्नेः पुछेनाग्नेः पुछम् उपदधाम्य् उदीच्या त्वा दिशा सादयामि मित्रावरुणाभ्यां देवाभ्यां देवतयानुष्टुभेन छन्दसाग्नेः पक्षम् उपदधाम्य् आनुष्टुभस्य छन्दसो ऽग्नेः पक्षेणागेः पक्षम् उपदधाम्य् ऊर्ध्वया त्वा दिशा सादयामि बृहस्पतिना देवेन देवतया पाङ्क्तेन छन्दसाग्नेः पृष्ठम् उपदधामि पाङ्क्तस्य छन्दसो ऽग्नेः पृष्ठेनाग्नेः पृष्ठम् उपदधामि ॥म्स्_२,८।११॥
मधुश् च माधवश् च वासन्तिका ऋतू अग्नेर् अन्तःश्लेषो ऽसि ॥
कल्पेतां द्यावापृथिवी कल्पन्ताम् आपा ओषधयः ।
कल्पन्ताम् अग्नयः पृथङ् मम ज्यैष्ठ्याय सव्रताः ॥
ये अग्नयः समनसो ऽन्तरा द्यावापृथिवी ।
वासन्तिका ऋतू अभिकल्पमाना इन्द्रम् इव देवा अभिसंविशन्तु ॥
शुक्रश् च शुचिश् च ग्रैष्मा ऋतू नभश् च नभस्यश् च वार्षिका ऋतू इषश् चोर्जश् च शारदा ऋतू सहश् च सहस्यश् च हैमन्तिका ऋतू तपश् च तपस्यश् च शैशिरा ऋतू अग्नेर् अन्तःश्लेषो ऽसि ॥
कल्पेतां द्यावापृथिवी कल्पन्ताम् आपा ओषधयः ।
कल्पन्ताम् अग्नयः पृथङ् मम ज्यैष्ठ्याय सव्रताः ॥
ये अग्नयः समनसो ऽन्तरा द्यावापृथिवी ।