१०

अयं पुरो हरिकेशः सूर्यरश्मिस् तस्य रथकृत्स्नश् च रथौजाश्च सेनानीग्रामण्यौ पुञ्जिकस्थला च कृतस्थला चाप्सरसौ यातुधाना हेती रक्षांसि प्रहेतिस् तेभ्यो नमो अस्तु ते नो मृडन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मो ऽयं दक्षिणा विश्वकर्मा तस्य रथस्वनश् च रथेचित्रश् च सेनानीग्रामण्यौ मेनका च सहजन्या चाप्सरसौ दङ्क्ष्णवः पशवो हेतिः पौरुषेयो वधः प्रहेतिस् तेभ्यो नमो अस्तु ते नो मृडन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मो ऽयं पश्चा विदद्वसुस् तस्य रथप्रोतश् चासमरथश् च सेनानीग्रामण्यव् आम्लोचन्ती च प्रम्लोचन्ती चाप्सरसौ व्याघ्रा हेतिः सर्पाः प्रहेतिस् तेभ्यो नमो अस्तु ते नो मृडन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मो ऽयम् उत्तरात् संयद्वसुस् तस्य सेनजिच् च सुषेणश् च सेनानीग्रामण्यौ विश्वाची च घृताची चाप्सरसव् आपो हेतिर् वातः प्रहेतिस् तेभ्यो नमो अस्तु ते नो मृडन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मो ऽयम् उपर्य् अर्वाग्वसुस् तस्य तार्क्ष्यश् चारिष्टनेमिश् च सेनानीग्रामण्यऊर्वशी च पूर्वचित्तिश् चाप्सरसव् अवस्फूर्जद् धेतिर् विद्युत् प्रहेतिस् तेभ्यो नमो अस्तु ते नो मृडन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तम् एषां जम्भे दध्मः ॥म्स्_२,८।१०॥