राज्ञ्य् असि प्राची दिग् वसवस् ते देवा अधिपतयो ऽग्निर् हेतीनां प्रतिधर्ता त्रिवृत् त्वा स्तोमः पृथिव्यां श्रयत्व् आज्यम् उक्थम् अव्यथायै स्तभ्नोतु रथन्तरं साम प्रतिष्ठित्या अन्तरिक्ष ऋषयस् त्वा प्रथमजा देवेषु दिवो मात्रया वरिणा प्रथन्तु विधर्ता चायम् अधिपतिश् च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं चा सादयन्तु विराड् असि दक्षिणा दिग् रुद्रास् ते देवा अधिपतय इन्द्रो हेतीनां प्रतिधर्ता पञ्चदशस् त्वा स्तोमः पृथिव्यां श्रयतु प्रौगम् उक्थम् अव्यथायै स्तभ्नोतु बृहत् साम प्रतिष्ठित्या अन्तरिक्ष ऋषयस् त्वा प्रथमजा देवेषु दिवो मात्रया वरिणा प्रथन्तु विधर्ता चायम् अधिपतिश् च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु सम्राड् असि प्रतीची दिग् आदित्यास् ते देवा अधिपतयः सोमो हेतीनां प्रतिधर्ता सप्तदशस् त्वा स्तोमः पृथिव्यां श्रयतु मरुत्वतीयम् उक्थम् अव्यथायै स्तभ्नोतु वैरूपं साम प्रतिष्ठित्या अन्तरिक्ष ऋषयस् त्वा प्रथमजा देवेषु दिवो मात्रया वरिणा प्रथन्तु विधर्ता चायम् अधिपतिश् च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु स्वराड् अस्य् उदीची दिङ् मरुतस् ते देवा अधिपतयो वरुणो हेतीनां प्रतिधर्तैकविंशस् त्वा स्तोमः पृथिव्यां श्रयतु निष्केवल्यम् उक्थम् अव्यथायै स्तभ्नोतु वैराजं साम प्रतिष्ठित्या अन्तरिक्ष ऋषयस् त्वा प्रथमजा देवेषु दिवो मात्रया वरिणा प्रथन्तु विधर्ता चायम् अधिपतिश् च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्त्व् अधिपत्न्य् अस्य् ऊर्ध्वा दिग् विश्वे ते देवा अधिपतयो बृहस्पतिर् हेतीनां प्रतिधर्ता त्रिणवत्रयस्त्रिंशौ त्वा स्तोमौ पृथिव्यां श्रयतां वैश्वदेवाग्निमारुते उक्थे अव्यथायै स्तभ्नुतां शाक्वररैवते सामनी प्रतिष्ठित्या अन्तरिक्ष ऋषयस् त्वा प्रथमजा देवेषु दिवो मात्रया वरिणा प्रथन्तु विधर्ता चायम् अधिपतिश् च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु ॥म्स्_२,८।९॥
दिङ् : फ़्न् ⟨ दिश्