०६

एकयास्तुवत प्रजा अधीयन्त प्रजानां पतिर् अधिपतिर् आसीत् तिसृभिर् अस्तुवत ब्रह्मासृज्यत ब्रह्मणस्पतिर् अधिपतिर् आसीत् पञ्चभिर् अस्तुवत भूतान्य् असृज्यन्त भूतानां पतिर् अधिपतिर् आसीत् सप्तभिर् अस्तुवत सप्तऋषयो ऽसृज्यन्त धाताधिपतिर् आसीन् नवभिर् अस्तुवत पितरो ऽसृज्यन्तादितिर् अधिपतिर् आसीद् एकादशभिर् अस्तुवतार्तवा असृज्यन्त ऋतवो ऽधिपतय आसंस् त्रयोदशभिर् अस्तुवत मासा असृज्यन्त संवत्सरो ऽधिपतिर् आसीत् पञदशभिर् अस्तुवत क्षत्रम् असृज्यतेन्द्रो ऽधिपतिर् आसीत् सप्तदशभिर् अस्तुवत ग्राम्याः पशवो ऽसृज्यन्त बृहस्पतिर् अधिपतिर् आसीन् नवदशभिर् अस्तुवत शूद्रार्या असृज्येताम् अहोरात्रे अधिपत्नी आस्ताम् एकविंशत्यास्तुवतैकशफम् असृज्यत वरुणो ऽधिपतिर् आसीत् त्रयोविंशत्यास्तुवत क्षुद्राः पशवो ऽसृज्यन्त पूषाधिपतिर् आसीत् पञ्चविंशत्यास्तुवतारण्याः पशवो ऽसृज्यन्त वायुर् अधिपतिर् आसीत् सप्तविंशत्यास्तुवत वनस्पतयो ऽसृज्यन्त सोमो ऽधिपतिर् आसीन् नवविंशत्यास्तुवत द्यावापृथिवी व्यैतां वसवो रुद्रा अनुव्यायंस् त उ एवाधिपतय आसन्न् एकत्रिंशतास्तुवत प्रजा असृज्यन्त यवाश् चायवाश् चाधिपतय आसंस् त्रयस्त्रिंशतास्तुवत भूतान्य् अशाम्यन् प्रजापतिः परमेष्ठ्य् अधिपतिर् आसीत् ॥म्स्_२,८।६॥

अग्ने जातान् प्रणुदा नः सपत्नान् प्रत्य् अजातान् जातवेदो नुदस्व ।
अधि नो ब्रूहि सुमना अहेडञ् शर्मंस् ते स्याम त्रिवरूथा उद्भौ ॥

सहसा जातान् प्रणुदा नः सपत्नान् प्रत्य् अजातान् जातवेदो नुदस्व ।
अधि नो ब्रूहि सुमनस्यमानो वयं स्याम प्रणुदा नः सपत्नान् ॥

चतुश्चत्वारिंशी स्तोमो वर्चो द्रविणं षोडशी स्तोम ओजो द्रविणम् ॥

अग्नेः पुरीषम् अस्य् अप्सो नाम तां त्वा विश्वे अभिगृणन्तु देवाः ।
स्तोमपृष्ठा घृतवतीह सीद प्रजावद् अस्मे द्रविणायजस्व ॥