अग्नेर् भागो ऽसि दीक्षाया आधिपत्यं ब्रह्म स्पृतं त्रिवृत् स्तोम इन्द्रस्य भागो ऽसि विष्णोर् आधिपत्यं क्षत्रं स्पृतं पञ्चदशः स्तोमो नृचक्षसां भागो ऽसि धातुर् आधिपत्यं जनित्रं स्पृतं सप्तदशः स्तोमो मित्रस्य भागो ऽसि वरुणस्याधिपत्यं दिवो वृष्टिर् वातः स्पृत एकविंशः स्तोमो ऽदित्या भागो ऽसि पूष्ण आधिपत्यम् ओजः स्पृतं त्रिणवः स्तोमो वसूनां भागो ऽसि रुद्राणाम् आधिपत्यं चतुष्पात् स्पृतं चतुर्विंशः स्तोम आदित्यानां भागो ऽसि मरुताम् आधिपत्यं गर्भाः स्पृताः पञ्चविंशः स्तोमः सवितुर् भागो सि बृहस्पतेर् आधिपत्यं समीचीर् दिशः स्पृताश् चतुष्टोमः स्तोमो यवानां भागो ऽस्य् अयवानाम् आधिपत्यं प्रजाः स्पृताश् चतुश्चत्वारिंशः स्तोम ऋभूणां भागो ऽसि विश्वेषां देवानाम् आधिपत्यं भूतं निशान्तं स्पृतं त्रयस्त्रिंशः स्तोमः ॥म्स्_२,८।५॥