राज्ञ्य् असि प्राची दिग् विराड् असि दक्षिणा दिक् सम्राड् असि प्रतीची दिक् स्वराड् अस्य् उदीची दिग् अधिपत्न्य् अस्य् ऊर्ध्वा दिग् आयुर् मे पाहि प्राणं मे पाह्य् अपानं मे पाहि व्यानं मे पाहि चक्षुर् मे पाहि श्रोत्रं मे पाहि मनो मे पिन्व वाचं मे जिन्वात्मानं मे पाहि ज्योतिर् मे यछ मा छन्दः प्रमा छन्दः प्रतिमा छन्दो ऽस्रीवीश् छन्दः पङ्क्तिश् छन्द उष्णिहा छन्दो गायत्री छन्दस् त्रिष्टुप् छन्दो जगती छन्दो ऽनुष्टुप् छन्दो विराट् छन्दो बृहती छन्दः पृथिवी छन्दो ऽन्तरिक्षं छन्दो द्यौश् छन्दो नक्षत्राणि छन्दः समा छन्दः कृषिश् छन्दो वाक् छन्दो मनश् छन्दो गौश् छन्दो ऽश्वश् छन्दो ऽजा छन्दो हिरण्यं छन्दो ऽग्निर् देवता वातो देवता सूर्यो देवता चन्द्रमा देवता वसवो देवता रुद्रा देवतादित्या देवता मरुतो देवतेन्द्रो देवता वरुणो देवता बृहस्पतिर् देवता विश्वे देवा देवता मूर्धासि राड् ध्रुवासि धरुणा धर्त्र्य् असि धरण्य् आयुषे त्वा वर्चसे त्वा कृष्यै त्वा क्षेमाय त्वा यन्त्री राड् यन्त्र्य् असि यमनी धर्त्र्य् असि धरित्रीषे त्वोर्जे त्वा रय्यै त्वा पोषाय त्वा ॥म्स्_२,८।३॥
इन्द्रो : फ़्न् एमेन्देद्। एद्।: इन्दो
ध्रुवासि : फ़्न् एमेन्देद्। एद्।: ध्रवासि।