प्राणं मे पाह्य् अपानं मे पाहि व्यानं मे पाहि चक्षुर् म उरुया विभाहि श्रोत्रं मे श्लोकयापः पिन्वौषधीर् जिन्व द्विपाद् अव चतुष्पात् पाहि दिवो वा वृष्टिम् एरय क्षत्रं वयो मयन्तं छन्दो विष्टम्भो वयो ऽधिपतिश् छन्दो मूर्धा वयः प्रजापतिश् छन्दो विश्वकर्मा वयः परमेष्ठी छन्दस् त्र्यविर् वयस् त्रिष्टुप् छन्दो दित्यवाड् वयो विराट् छन्दः पञ्चाविर् वयो गायत्री छन्दस् त्रिवत्सो वय उष्णिहा छन्दस् तुर्यवाड् वयो ऽनुष्टुप् छन्दः पष्ठवाड् वयो बृहती छन्द उक्षा वयः ककुप् छन्द ऋषभो वयः सतोबृहती छन्दो ऽनड्वान् वयः पङ्क्तिश् छन्दो धेनुर् वयो जगती छन्दो बस्तो वयो युवलं छन्दो वृष्णिर् वयो विशालं छन्दः पुरुषो वयस् तन्द्रं छन्दः सिंहो वयश् छदिश् छन्दो व्याघ्रो वयो ऽनाधृष्यं छन्दः ॥म्स्_२,८।२॥
इन्द्राग्नी अव्यथमानाम् इष्टकां दृंहतं युवम् ।
पृष्ठेन द्यावापृथिवी आपृणान्तरिक्षं च विबाधस्व ॥