०१

सजूर् ऋतुभिः सजूर् विधाभिः सजूर् देवैः सजूर् देवैर् वयुनाधैर् अग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयताम् इह त्वा सजूर् ऋतुभिः सजूर् विधाभिः सजूर् वसुभिः सजूर् ऋतुभिः सजूर् विधाभिः सजू रुद्रैः सजूर् ऋतुभिः सजूर् विधाभिः सजूर् आदित्यैः सजूर् ऋतुभिः सजूर् विधाभिः सजूर् विश्वैर् देवैर् वैश्वानरैः सजूर् देवैर् वयुनाधैर् अग्नये त्वा वैश्वानरायाश्विनाध्वर्यू सादयताम् इह त्वा ॥म्स्_२,८।१॥