ऊर्ध्वा दिग् घेमन्तशिशिरा ऋतू बृहस्पतिर् देवता फलं द्रविणं पङ्क्तिश् छन्दः शाक्वररैवते सामनी त्रिणवः स्तोमः स उ त्रयस्त्रिंशवर्तनिः सुपर्णा ऋषिः पष्ठवाड् वय आस्कन्दो ऽयानाम् उपरिष्टाद्वातो वातः पितरः पितामहाः परे ऽवरे ते नो ऽवन्तु ते नः पान्त्व् अस्मिन् ब्रह्मण्य् अस्यां पुरोधायाम् अस्मिन् कर्मण्य् अस्याम् आशिष्य् अस्यां देवहूतौ ॥म्स्_२,७।२०॥
लोकं पृण छिद्रं पृणाथा सीद ध्रुवा त्वम् ।
इन्द्राग्नी त्वा बृहस्पतिर् अस्मिन् योना असीषदन् ॥
ता अस्य सूददोहसः सोमं श्रीणन्ति पृश्नयः ।
जन्मन् देवानां विशस् त्रिष्व् आ रोचने दिवः ॥
ध्रुवक्षितिर् ध्रुवयोनिर् ध्रुवासि ध्रुवं योनिम् आसीद साध्या ।
उख्यस्य केतुं प्रथमं जुषाणा अश्विनाध्वर्यू सादयताम् इह त्वा ॥
कुलायिनी घृतवती पुरन्धिः स्योने सीद सदने पृथिव्याः ।
अभि त्वा रुद्रा वसवो गृणन्त्व् इदं ब्रह्म पिपृहि सौभगाय ।
अश्विनाध्वर्यू सदयताम् इह त्वा ॥
स्वैर् दक्षैर् दक्षपितेह सीद देवानां सुम्ने बृहते रणाय ।
पितेवैधि सूनवे यः सुशेवः स्वावेशया तन्वा संविशस्व ।
अश्विनाध्वर्यू सादयताम् इह त्वा ॥
पृथिव्याः पुरीषम् अस्य् अप्सो नाम तां त्वा विश्वे अभिगृणन्तु देवाः ।
स्तोमपृष्ठा घृतवतीह सीद प्रजावद् अस्मे द्रविणायजस्व ।
अश्विनाध्वर्यू सादयताम् इह त्वा ॥
अदित्यास् त्वा पृष्ठे सादयाम्य् अन्तरिक्षस्य धर्त्रीं विष्टम्भनीं दिशाम् । भुवनस्याधिपत्नीम् ऊर्मिर् द्रप्सो अपाम् असि ।
अश्विनाध्वर्यू सादयताम् इह त्वा ॥