अयं पुरो भूस् तस्य प्राणो भौवायनो वसन्तः प्राणायनो गायत्री वासन्ती गायत्र्या गायत्रं गायत्राद् उपांशुर् उपांशोस् त्रिवृत् त्रिवृतो रथन्तरं वसिष्ठा ऋषिः प्रजापतिगृहीतया त्वया प्राणं गृह्णामि प्रजाभ्यो ऽयं दक्षिणा विश्वकर्मा तस्य मनो वैश्वकर्मणं ग्रीष्मो मानसस् त्रिष्टुब् ग्रैष्मी त्रिष्टुभः स्वारं स्वाराद् अन्तर्यामो ऽन्तर्यामात् पञ्चदशः पञ्चदशाद् बृहद् भरद्वाजा ऋषिः प्रजापतिगृहीतया त्वया मनो गृह्णामि प्रजाभ्यो ऽयं पश्चा विश्वव्यचास् तस्य चक्षुर् वैश्वव्यचसं वर्षाणि चाक्षुषाणि जगती वार्षी जगत्या ऋक्समम् ऋक्समाञ् शुक्रः शुक्रात् सप्तदशः सप्तदशाद् वैरूपं जमदग्निर् ऋषिः प्रजापतिगृहीतया त्वया चक्षुर् गृह्णामि प्रजाभ्य इदम् उत्तरात् स्वस् तस्य श्रोत्रं सौवं शरञ् श्रौत्र्य् अनुष्टुप् शारद्य् अनुष्टुभ ऐडम् ऐडान् मन्थी मन्थिन एकविम्श एकविंशाद् वैराजं विश्वामित्रा ऋषिः प्रजापतिगृहीतया त्वया श्रोत्रं गृह्णामि प्रजाभ्य इयम् उपरि मतिस् तस्या वाङ् मात्या हेमन्तो वाच्यः पङ्क्तिर् हैमन्ती पङ्क्त्या निधनवन् निधनवत आग्रायण आग्रयणात् त्रिणवत्रयस्त्रिंशौ त्रिणवत्रयस्त्रिंशाभ्यां शाक्वररैवते विश्वकर्मा ऋषिः प्रजापतिगृहीतया त्वया वाचं गृह्णामि प्रजाभ्यः ॥म्स्_२,७।१९॥
प्राची दिग् वसन्त ऋतुर् अग्निर् देवता ब्रह्म द्रविणं गायत्री छन्दो रथन्तरं साम त्रिवृत् स्तोमः स उ पञ्चदशवर्तनिः सानगा ऋषिस् त्र्यविर् वयः कृतम् अयानां पुरोवातो वातः पितरः पितामहाः परे ऽवरे ते नो ऽवन्तु ते नः पान्त्व् अस्मिन् ब्रह्मण्य् अस्यां पुरोधायाम् अस्मिन् कर्मण्य् अस्याम् आशिष्य् अस्यां देवहूतौ ॥
दक्षिणा दिग् ग्रीष्म ऋतुर् इन्द्रो देवता क्षत्रं द्रविणं त्रिष्टुप् छन्दो बृहत् साम पञ्चदशः स्तोमः स उ सप्तदशवर्तनिः सनातना ऋषिर् दित्यवाड् वयस् त्रेतायानां दक्षिणाद्वातो वातः पितरः पितामहाः परे ऽवरे ते नो ऽवन्तु ते नः पान्त्व् अस्मिन् ब्रह्मण्य् अस्यां पुरोधायाम् अस्मिन् कर्मण्य् अस्याम् आशिष्य् अस्यां देवहूतौ ॥
प्रतीची दिग् वर्षा ऋतुर् विश्वे देवा देवता विड् द्रविणं जगती छन्दो वैरूपं साम सप्तदशः स्तोमः स उ एकविंशवर्तनिर् अहभूना ऋषिस् त्रिवत्सो वयो द्वापरो ऽयानां पश्चाद्वातो वातः पितरः पितामहाः परे ऽवरे ते नो ऽवन्तु ते नः पान्त्व् अस्मिन् ब्रह्मण्य् अस्यां पुरोधायाम् अस्मिन् कर्मण्य् अस्याम् आशिष्य् अस्यां देवहूतौ ॥
उदीची दिक् शरद् ऋतुर् मित्रावरुणौ देवता पुष्टं द्रविणम् अनुष्टुप् छन्दो वैराजं सामैकविंशः स्तोमः स उ त्रिणववर्तनिः पुराणा ऋषिस् तुर्यवाड् वयो ऽभिभवो ऽयानाम् उत्तराद्वातो वातः पितरः पितामहाः परे ऽवरे ते नो ऽवन्तु ते नः पान्त्व् अस्मिन् ब्रह्मण्य् अस्यां पुरोधायाम् अस्मिन् कर्मण्य् अस्याम् आशिष्य् अस्यां देवहूतौ ॥